SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ દર मेन त्वसिद्धेश्च । यत् सहकारिसमवधानवत् सांद्ध (१) करोत्येवेति को नाम नाभ्युपैति ( २ ) यमुद्दिश्य साध्यते । न चाकरणकाले सहकारिसमवधानवस्त्रमस्माभि (३)रभ्युपेयते यतः प्रसङ्गः प्रवर्तेत ( ४ ) । दीधितिः । यदित्यादिना । यदि कश्चिदकुर्वाणमपि कारणजातीयं सहकारिसमवहितमभ्युपेयात् तदा तं प्रति तस्थाकारित्वेन सहकारिसमवधानाभावः साधयितुमुचितः, न स्वेतदस्ति; सहकारिसमवहिते करण नियमाभ्युपगमेनार्थतोऽकारिणः सहकारिसमवधानाभावनियमस्याप्यभ्युपगतत्वात् तथा चाकुर्वाणे सहकारिसमवधानाभावसाधने सिद्धमाधनमिति भावः । यत्तु सहकारिसमवहिते (५) सहकारिसमवधानेन करणमसञ्जने सिद्धसाधनमिष्टापत्तिरिति, तन्न, तादृशप्रसङ्गस्यामस्तुतत्वेन तत्र दृषणोपन्यासायोगात् ॥ १ आत्मतस्वविवेकः दीधितिटिप्पणी । धनेति । यथाश्रुतमूले विपर्ययीयसाध्यादर्शनात्तत्र सिद्धसाधनप्रदर्श नमेतस्य न शब्दतो लभ्यते, अतोऽर्थतो व्यतिरेकमर्थेन तथा दर्शयति । यदि कश्विदित्यादि । इदमेवोपसंहरति । तथा चेति । प्रसङ्ग एव सिद्धसाधनं व्याख्यातॄणां मते आह । यश्विति । एतन्मते सहकारिसमवद्दितक्षेत्रादिस्थवीजमेव पक्षः, अत एव सप्तम्यन्तेन पद्मकथनम् । तर्फे सिद्धसाधनाभावादिष्टापत्तिपर (ता) माह । सिद्धसाधनमिति । तादृशप्रसङ्गस्य सहकारिसमवहितपक्षकप्रसङ्गस्य । अप्रस्तुतत्वेनेति । क्षेत्रस्थप्रतियोगिक भेदसाधनाय कुशूलस्थासामध्ये साधनस्यैव तस्योद्देश्यतया तत्पक्षकस्याप्रस्तावोचितत्वमिति भावः ॥ (१) तत् - पुण० पु० पा० । (२) नाभ्युपगच्छति पाठः । ( ३ ) समवधानवत्तास्माभि- पुण० पु० पा० । ( ४ ) प्रवर्तेत - पुण० पु० नास्ति । (५) पक्षे इति शेषः ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy