________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलतास्थटीकाइयविभूषितः । ३९ नापि विकल्पभेदः, स्वरूपकृतस्य तस्य व्यावृत्तिभेदकत्वेऽसमर्थ व्यावृत्तेरपि भेदप्रसङ्गात् विषयकृतस्य तु तस्य (९) भेदकत्वेऽन्योन्याश्रयप्रसङ्गात (२) । न च निर्निमित्त एवायं व्यावृत्तिभेदव्यवहारः, अतिप्रसङ्गात् (३) ।
।
दीधितिः ।
सिरानुपूर्वीभेदादिः । उपाधिः, विरोधसम्पादक इति शेषः । पर्यायेति । बोधकशब्दभेदेन बोध्यव्यावृत्तिभेदे पर्यायोच्छेदः । भिन्नयोरभिन्नप्रवृत्तिनिमित्तकत्वं पर्यायत्वम् । विकल्पभेद इति । उपाधिरित्यादिकमनुषज्यते । भेदप्रसङ्गादिति । तथा च व्याप्ति · पक्षधर्मताज्ञानाभ्यां विषयीकृतयोर्भेदे के प्रसङ्गादिवार्तेति भावः ॥
,
दीधितिटिप्पणी |
तथा
आनुपूर्व्यास्तु शब्दवृत्तित्वमस्त्येवेति न दोषः । एतावतापि स्वावच्छेद कोपाधीतिपर्यन्तं प्राप्तम्, तद्वयावर्त्य भेदेनेति न प्राप्तम्, अतः पूरयति । उपाधिरिति । एवश्च विरोधेत्यादेः स्वय्यावस्थभेदेनेत्यादि - पर्यन्तं लब्धम् । कथं पर्यायोच्छेद इत्यत आह । भिन्नयोरिति । तचात्र नास्तीति भावः । एतन्मतेऽतद्वयावृतेरेव प्रवृत्तिनिमित्तत्वात् सद्भेदे व नैकप्रवृत्तिनिमित्तकत्वरूप पर्यायस्वमित्यर्थः । चेत्यादि । ज्ञानभेदस्य व्यावृत्तिभेदकत्वे हेतुकृताया असमर्थव्या थेरपीदृशत्वाद्विभिन्नाभ्यां व्याप्तिपक्षधर्मताज्ञानाभ्यां भेदात् कथमक हेतौ व्याप्तिपक्षधर्मताज्ञाने येन प्रसङ्गस्तद्धेतुत्वे साधकः स्यात् । न च परामर्शात्मकविशिष्टशानविषयत्वान तथेति वाच्यम् । तन्मते परामर्शामकारात् । न च तन्मते यत्प्रकारकं व्याप्तिज्ञानं तत्प्रकारकं पक्षधर्मताज्ञानं कारणमुच्यते तचैकस्मिन्नेव धर्मिणि भित्रे वेति न
(१) कृतस्य तस्व - पुण० पु० पा० । परस्पराश्रयत्वप्रसङ्गात् - पुण० पु० पा
★
%
( २ ) शङ्करामिश्रसम्मतोयं पाठः । भेदकत्वे (१) प्रसङ्गादिति पुण० पु० पा०