________________
आत्मवश्वविवेकः
शब्दादिरिति चेन्न । प्रतिबन्धासिद्धेः ।
दीधितिः ।
थनमात्रं (१) वा, पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्याया अनुत्पलत्वेन तस्यादोषत्वात् । शब्दादिरिति विभिन्नरूपण पक्षस्वेपि न क्षतिः, समूहालम्बन रूपाया अनुमितेः सम्भवात् केषाविद्विशिष्यानुपादानेपि न तत्र सन्दिग्धानैकान्तिकत्वं गृहीतव्याप्तिकस्य हेतोस्तत्र परामर्शेनुमितेरेवोदयात् पक्षत्वेनोपन्यासस्याकिश्चित्करत्वात् । प्रामाणिकत्वार्थक्रियाकारित्वरूपयो(२) सवयोरेकतरस्य पक्षतावच्छेदकत्वं हेतुत्वं चान्यतरस्य । पक्षतावच्छेदकस्य हेतुत्वेपि न दोषः, व्याप्तिग्रहेण हेतौ साध्य
दीधितिटिप्पणी ।
.२६
,
माणत्वेनेदानीं तदुपन्यासानौचित्यमेव कश्चिदित्यस्यास्वरसः । स्वरूपकथने हेतुः, पक्षतावच्छेदकेति । एवं विभिनपक्षतावच्छेदकं कृत्वाप्येकदानुमितिः शक्यत इत्याह । शब्दादिरिति । समूहालम्बनेति । तच्छन्दत्वेन तदूघटत्वेन वै कदा पक्षत्वेप्येकदैव तावद्विषयानुमितिरित्यर्थः । एवञ्चान्त्यशब्दस्य पक्षबाहिर्भाव इति हृदयम्, अन्यथा पक्षतावच्छेदकभेदेनांशतः सिद्धसाधनस्य दोषत्वापत्तेः । नन्वन्त्यशब्दस्य विशिष्यानुपादाने हेतुस्तत्र सन्दिग्धनिकान्त इत्यत आह । केवाचिदिति । गृहीतव्याप्तिकस्येति । अयं भावः, एकस्य पक्षतयोपन्या
परस्यानुपन्यासेन भवता तदानीं सन्दिग्धानेकान्तो दीयते, तत्र यदि पक्षत्योपन्यास पूर्वे हेतौ व्याप्तिग्रहस्तदा पक्षत्वोपन्यासेपि समा नम्, व्याप्त्यमनुमितरभावाच्छब्दप्रयोगरूपोपन्यासेन वा किं क्रि. यतं इति भावः । एतेनाप्रामाण्यासञ्जनं क्रियते इत्यपास्तम्, उपन्यासानुपन्यासयोः समानत्वात् । एकदेव सर्वस्य पक्षत्वमप्याह । प्रामाणिकत्वेति । एकसञ्शाया हेतुपक्षतावच्छेद को भयार्थकत्वेपि न दोष इत्याह । पक्षतेति । अन्यतरस्य चरमस्य तत्रैव क्रमयौगपद्येत्यादितर्कस्य दर्शयिष्यमाणत्वात् । न दोषः न सिद्धसाधनम् ।
(१) स्वरूपकथनं - काल० मु० पु० पा० । ( २ ) रूपयो :- कलि० मु० पु० पा० ।
.