________________
टिप्पणीसमलङ्कृतदीधिति-कल्पलताव्यटीकाइयविभूषितः । २५
कल्पलता ।
co (१) न या, समुत्पत्तिव्याप्यं न वा कार्य स्वोपादानसमानकालीनं न वा, भावः स्वोरपश्यव्यवहितो सरक्षणवर्तिध्वंसप्रतियोगी न था । एकदेशिमलेनान्त्यशब्दे विधिकोटिप्रसिद्धिः, निषेधकोटि (प्रसिडि ) - स्वलीके सौगतानां मते ॥
तत्र न प्रथमः, प्रमाणाभावात् । यत् सत् तत् क्षणिकं, यथा घटः, विवादाध्यासितः
संव
दीधितिः ।
अनुमितिकारणव्याप्तिपक्षधर्मताज्ञानजनकोदाहरणोपनयात्मकयवयवन्यायवादी (२) बौद्धः क्षणिकत्वे मानमाह । यत् सदिति । स्थूलद्रव्याभ्युपगमेन घटो दृष्टान्तः प्रसाध्याकः (३), तथोत्पादविशिष्टो वा परमाणुसमूहो घटः । असनेव वा व्यतिरेके दृष्टान्त (४) इति कश्चित् ( ५ ) । विवादाध्यासित इत्येकदेशिमतेनान्त्यशब्दे अंशतः सिद्धसाधनवारणाय, स्वरूपकदीधितिटिप्पणी ।
यवयवन्यायवादित्वे हेतु:, अनुमितिकारणेति । तथा चैतावतैवानुमितिनिर्वाहे नावयवान्तरस्वीकार इति भावः । तन्मतेऽवयविनो घटस्य शशशृङ्गतुल्यत्वात् परमाणुपुञ्जस्यैव घटत्वादाह । स्थूलेति तस्य क्षणिकत्वं नोभयसम्मतमत आह । प्रसाध्याङ्गक इति । तथेति । परमाणुसमूहः, क्षणिक इत्यादिः कुर्वद्रूपत्वविशिष्टपरमाणुसमहो वा घटपदेनोक इत्यर्थः । मतान्तरमाह । असभेव घेति । अली · कघट एव वा व्यतिरेके दृष्टान्त इत्यर्थः । व्यतिरेकपक्षस्य पश्चाद्वश्य(१) क्रमिक क्षणद्वयमांत्रवृत्तिधर्मस्तदुभयत्वं तदुभयाम्यतरत्वं वा तद्व्यापकत्वं तनिष्ठाम्योग्याभावप्रतियोगितानवच्छेदकत्वम्, तथ कालिकसम्बन्धेन बोध्यम् । नैयायिकमते केनापि स
मावृत्तौ गगनादवितस्य प्रसिद्धिः परेषा चालीके । सत्त्वस्य च तद्व्याप्यत्वं साध्यते, तस्सामानाधिकरण्यमात्रस्य साध्यत्वे गगनादौ तत्सत्वेन सिद्धसाधनापत्तेः । (२) व्यवयववादी - कालि० मु० पु० पा० । (३) सन्दिग्धसाध्यक इत्यर्थः । ( ४ ) व्यतिरेकदृष्टान्त - कलिं० भु० पु० पा० । (५) टिप्पणीकृन्मतोऽयं पाठः। केचित इति सर्वत्र ।