________________
आत्मतत्वविवेकः
दीधितिः ।
विधिप्रसिद्धिरेकदेशिनामन्त्यशब्द इति केचित् । समुत्पतिव्याप्यं न वा इत्यादिकं तु न युक्तम, तथा सति सच्वादेरेवोत्पत्तिव्याप्यत्वादिकस्य साधयितुमुचितत्वात् ॥
दीधितिटिप्पणी ।
२४
अन्त्यस्य स्वमतेपि चरमध्वंसे प्रसिद्धिर्द्रष्टव्या । केचिदित्यनेन प्र थमे अन्त्यशब्दस्य क्षणिकत्था (न) भ्युपगमः, द्वितीये तु स्वाधिकरणेत्याद्यपेक्षया गौरवमेवास्वरसः सूचितः । गुरुचरणांस्तु उत्पत्तिक्षणवर्तिघरं पक्षीकृत्यायमेतदव्यवहितोत्तरक्षणवर्तिध्वंसप्रतियोगी न वा | प्रसिद्धिरेतस्य तादृशोत्तरक्षणविनष्टा परपदार्थ इत्याहुः । सत्यमित्यादि । यत्र यदा सस्वमित्यादिकालिक दैशिकोभयसम्बन्धेन व्याप्ति. बोध्या, तदेवाभिमतसिद्धेरिति, अन्यथा केवलदेशिक व्याप्तावपि न क्षणिकत्वसिद्धिः, एवं कालिकव्याप्तावपि न क्षणिकत्वसि द्धिरिति द्रष्टव्यम् | उचितत्वादिति । तथा च यत् सदित्यादिसावनमर्थान्तरदुष्टमिति भावः । अत्र केचित् स्वाधिकरणेत्यादिसिद्वावपि न क्षणभङ्ग सिद्धिः, ध्वंसान्तरप्रतियोग्य (स्तर) वृत्तित्वेन स्थिरस्यापि तथात्वाविरोधात् एवं चरमध्वंसवत् तत्कालोत्पन्नभावस्याविनाशित्वेपि तथा स्यादित्यर्थान्तरमतस्तत् शब्दादिः खोत्पत्यव्यवहितेत्यादि । साध्यप्रसिद्धिश्व ध्वंसेषु तेषां स्वभेदात्मकतादृशध्वंसान्तरप्रतियोगित्वात् ध्वंसत्वनिरूपकप्रतियोगित्वस्याधिवक्षणात् । घटादिनिष्ठप्रतियोगिताको (१)तिरिक्त एव भेदः, अभा प्रतियोगि काभावाधिकरणकाभावस्यानतिरके सिद्धान्तसत्त्वा
"
"
दिति न सिद्धसाधनम् । यद्वा तादृशध्वंसनिष्ठप्रतियोग्य नुयोगितासम्बन्धाश्रयत्वं साध्यम्, तथा च स्वोत्पत्युत्तरकालवृत्तिध्वंसनिष्ठता. सम्बन्धाश्रयत्वे घटादौ (साध्यमाने ) पक्षधर्मताबलात् तत्प्र तियोगित्वप्रसिद्ध्याभिमतलाभ इति वदन्ति ।
"
कल्पलता ।
विचारप्रवर्तक संशय मूलं च क्षणभङ्गे विप्रतिपत्तयः । सत्वं क्षणमात्रवृत्त्यनेक वृत्तिधर्मव्यापकताव्या(१) घटादिसिष्टो - इत्यादर्शपुस्तके पाठः ।