________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताव्यटीकाद्वयविभूषितः । १३ दीधितिः ।
ग्यनाधारत्वं वा । क्षणोपि वा नोपादेयः । भिन्नकालयोरनाधाराधेयभावो वा वृत्तिर्वा कालिकी वक्तव्या, तेनातीतगोचरक्षणिकज्ञाने नांशतो बाधादिः । शब्दादिः स्वोत्पत्यव्यवहितोत्तरकालीनध्वंसप्रतियोगी न वा, स्वोत्पत्तिव्याप्यो न वा, व्याप्तिश्च कालिकी,
दीधितिटिप्पणी ।
"
इहापि पूर्ववदेव विनश्यदवस्थानां भाषानां महाप्रलयावच्छे. देन च ध्वंसानां तथात्वं बोध्यम् । क्षणोपि वेति । न च तदनुपादाने क्षणिकत्वेपि भावानां स्वाधिकरणमहाकालवृत्तिध्वंसप्रतियोगिवृत्तित्वान्न यथोक्तरूपतेति बाध इति वाच्यम् । तैर्महाकालस्यापि क्षणिकता ( १ ) स्वीकारेण तन्मने बाधाभावात्, स्वाधिकरणक्षणिक महाकाले स्वाधिकरणक्षणध्वंसासत्त्वात् क्षणध्वसाधिकरमहाकाले च स्वाधिकरणत्वाभावात् उभयवादिसिद्धा साध्यप्रसिद्धिश्वरमध्वंस एवास्तीति न साध्याप्रसिद्धिः, चरमध्वसाधिकरणसमयस्य ध्वंसरूपतया ध्वंसप्रतियोगित्वाभावात् । वस्तुतः क्षण एव (२) नोपादेयः, तथा च स्वाधिकरणध्वंसप्रति योग्य वृत्तित्वं स्ववृत्तिध्वं संप्रति गोग्य वृत्तित्वं वा क्षणिकत्वमित्येव सम्यक्, भ· न च बाधादिदोषानवकाशात् । ननु भवतामतीत घटादिगोचरवर्त मानज्ञानस्य क्षणिकत्वानुमाने बाधः, स्वस्य ज्ञानस्याधिकरणवर्तमानक्षणवृत्तिध्वंसप्रतियोगिन्यतीत घटे विषयतासम्बन्धेन वृत्तेरत आह । भिन्नकालयोरिति । तथा चातीते विषयतया ज्ञानं न वर्तत एवेति भावः । सिद्धान्तविरोधादाह । वृत्तिर्वेति । इदमुप. लक्षणम् । स्वाधिकरणत्वमपि कालिकं ग्राह्यम् । अंशत इति । अवच्छेदकावच्छेदेन साध्यसिद्धावंशतो बाधस्यापि दूषकत्वात् । केषाञ्चिन्मतमाह । शब्दादिरिति । स्वोत्पत्येति । अव्यवहितोत्तरत्वमिह स्वाधिकरणसमयध्वं साधिकरणसमयध्वंसानधिकरणत्वमात्रं, पूर्वक्षण साधारण्येपि प्रकृते क्षत्यभावात् । (एक) देशिनामिति ।
(१) क्षणिकत्वा - इत्यादर्शपुस्तके पाठः । (२) वस्तुतो ब्रह्मण एव – इत्यादर्शपुस्तके पाठः ।