________________
आत्मतश्वषिषेकः
दीधितिः । करणक्षणवृत्तिध्वंसप्रतियोग्यवृत्तित्वं वा क्षणिकत्वम् | क्षणत्वं च स्वावृत्तियावत्स्ववृत्तिध्वंसप्रतियोगिकत्वम्, स्ववृत्तिध्वंसप्रतियो
२२
दीधितिटिप्पणी ।
स्वाधिकरणस्य स्वद्वितीयादिक्षणोत्पत्तिकध्वंस रूप समयस्य न वास्तवः प्रागभावस्तदानीम्, येन तदधिकरणक्षणोत्पतिकत्वेन सत्यम्त सत्त्वं तत्र न स्यात्, किन्तु भावरूप ( १ ) प्रतियोग्येव तदानीं तत्प्रागभावः, अतो भावाभावसाधारण्यं युक्तम् । अन्त्यनिरुक्तौ विवक्षान्तरमपि कर्तुं शक्यत इत्यतः, अन्त्य इति । अन्त्ये ज्याय इत्यनेनोक्ते, अभावपदेन कादाचित्काभाव एव विवक्षित इत्यर्थः । अभ्यभावस्य स्वाधिकरणोपान्त्यभावध्वं साधिकरणक्षणवृत्तित्वात् तदूव्युदासः । प्रथमे तु तादृशध्वंसाधिकरणक्षणानुत्पत्तिकस्वस्थ तत्रापि सत्त्वान्न तदूव्युदास इत्यन्त्य इत्युक्तम् । ननु कथमस्त्य इत्युक्तम्, आद्येपि कादाचित्काभावप्रवेशे निर्दोषत्वात् अन्त्यभावे स्वाधिकरणसमय कादाचित्काभावरूपध्वं साधिकरण द्वितीयक्षणोत्पचिकत्वस्यैव सत्वात् उत्पत्तिलक्षणनिविष्ट (२) प्रागभावस्यापि कादाचित्कतया निवेशेऽन्त्यभावद्वितीयक्षणस्यापि (३) स्वाधिकरणसमयावृत्तिकादाचित्काभावप्रतियोगितया उत्पत्त्यात्मकत्वेन सत्यन्तासत्वादिति । न । सत्यन्तनिविष्टोत्पत्तेः स्वाधिकरणसमयध्वंसानाधारसमयसम्बन्धरूपाया एव निवेशस्योक्तत्वात् ईडशमुत्पत्तिलक्षणं च न द्वितीयादिक्षण इत्यदोषश्च । स्वयं प्रागभावानभ्युपगमान्तदद्यटितं साध्यमाह । स्वाघिकरणेत्यादि । एवं प्रागभावाघटितं क्षण. लक्षणमप्याह । क्षणत्वं चेति । स्वावृत्तीति । स्वस्मिन्नवृत्तयो यावन्तः स्ववृत्तिध्वंसानां प्रतियोगिनो यस्य तस्वमित्यर्थः । विनाश. सामग्रीविशिष्टानां भावानां तथात्वम्, तदवच्छेदेन स्ववृत्तिध्वंस. प्रतियोगिनः कस्यापि स्वस्मिन्नवृत्तेः । लघु लक्षणमाह । स्ववृत्तीति ।
"
(१) भाषवानं-- इत्यादर्शपुस्तके पाटः ।
(२) लक्षय्य विशिष्ट -- इत्यादर्शपुस्तके पाठः ।
(३) महाप्रलयपूर्व क्षणस्यापीत्यर्थः । तेनान्त्यभावस्य क्षणत्रयाद्यवस्थायित्वें तृतीयादिक्षयपरिग्रहः ।