________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः । २१
दीधितिः। घानाधारसमयः । प्रसिद्धिस्तु विधे। नैयायिकानां प्रागभावे च. रमध्वंसे च, निषेधस्य च बौद्धानामलीके । स्वाधिकरणसमयमागभावाधिकरणक्षणावृत्तित्वं क्षणिकत्वमिति तु ज्यायः । प्रसिद्धि. रेतस्य महाप्रलये । मागभावश्चात्र भावाभावसाधारणो बोध्या, तेनान्यभावव्युदासः, अन्ये कादाचित्काभावो वा (१) स्वाधि
दीधितिटिप्पणी । णत्वव्यावृत्तिः, समयपदादेव तयोर्लाभः । (प्रसिद्धिरिति ।) प्राग. भावे प्रसिद्धिः कादाचित्कत्वगर्भस्य, उभयलक्षणयोः प्रसिद्धिश्चरमध्वंसे, निषेधस्य च जन्येषु विशेषणाभावान्नित्येषु विशेष्याभावात् प्रसिद्धिः सुलभैव । अलीक इति । प्रतियोगिप्रसिद्धिः शब्दादावेवेति, अलीकस्य समयसम्बन्धाभावात् । अनुत्पत्तिकत्वप्रवेशेनैव कावा. चिंकत्वं प्रवेश्यते, अत एव तदप्रवेशनया लाघवात् प्रकारान्तरमा. ह(२)। स्वाधिकरणेति । अत्र च क्षणावृत्तित्वं क्षणासम्बन्धित्वम्, अन्यथाऽवृत्तितयापि पर्यवसानं स्यादित्यपव्याख्यानम्, अ. वृत्तेः स्वाधिकरणसमयाभावादेवातिप्रसङ्गवारणात्, स्वपदस्यानुयोगिन्येव तात्पर्यात्(३) । ननु भावमात्रस्य प्रातिस्विकरूपेण प्रामाणिकत्वेन वा पक्षत्वम्, एवञ्चान्त्यभावस्य द्वित्रिक्षणावस्थायित्वेपि यथोक्तरूपवत्वात् सिद्धसाधनम्, अत आह । प्रागभाव. श्वाति । अत्र अनयोनिरुक्त्योः। अन्त्यभावेति । यस्य भावस्यानन्तरं भावोत्पत्तिास्ति सोऽन्त्यभावः । स च क्षणत्रयस्थायी वा चतुरादिक्षणस्थायी वा भवस्वित्यन्यदेतत् । तथा च यदि भावाभाघसाधारणं न स्यात् तदा प्रत्येकस्य पक्षतयान्त्यभाष एवास्मन्मते सिद्धसाधनं स्यात् । तथाहि, तस्याधिकरणसमयस्तत्पूर्वोत्पन्नस्त
समोत्पन्नभावो ध्वंसरूपश्चाभावोस्ति, तत्र स्वाधिकरणभावरूप. समयप्रागभावक्षणे तस्योत्पत्तिरेव नास्ति, तदुत्तरं भाषानुत्पत्ते,
(१) टिप्पणीकृन्मतोयं पाठः । प्रागभावश्चात्र भावाभावसाधारणो बोध्यः, अन्त्ये कादाचित्काभावो घा, तेनान्त्यभावयुदासः--इति तु सर्वत्र पाठः ।.
(२) तदप्रवेशा ... प्रकारकमाह-इत्यादर्शपुस्तके पाठः । (३) स्वपदक्यानुयोगिन्येवसस्थवति...योलाघवात-इत्यादर्शपुस्तके पाठः । : THE KUPPUSWAMY SAYIN..
RESEARCH INSTITUTE, W ADODR MADRAS-,
-