________________
आत्मतत्वविवेकः ।
दीधितिटिप्पणी।
तथाविधस्थूलकालसम्बन्धस्य तत्रापि सत्वात् । न च क्षणिक स्वलक्षणस्थस्वपदस्यानुयोगिकोटौ दाने सत्यन्ते स्वाधिकरणस. मयध्वंसानधिकरणेत्याधुत्पत्तिप्रवेशे महाप्रलये स्वप्रसिद्धिरिति वाच्यम् । स्वपदस्यानुयोगिनि दाने विशेष्यस्य वैयपित्तेः प्रति. योगिन्येव तहानात् , तावतैव प्रागभाववारणसम्भवात् । न च त. थापि प्रागभावनित्ययोर्वारणार्थ विशेष्यदले उत्पत्तिमत्वं प्रवेश्यते, तच व्यर्थम् , अवश्यनिविष्टप्रागभावप्रतियोगित्वेनैव तद्वारणादिति वाच्यम् । प्रागभावप्रतियोगित्वमात्रोक्तौ प्रागभावसाधारण्यापते, तस्यापि सीयप्रागभावस्वरूपघटात्मकध्वंसप्रतियोगित्वात् , प्रा. गभावत्वनिरूपकप्रतियोगित्वस्याविषक्षणात् । न च वास्तवभागभावप्रतियोगित्वविवक्षयैव तन्निरासः, चरमध्वंसस्यापि स्वप्रतियोगिचरमभावप्रागभावप्रतियोगित्वात् तथात्वमविकलमिति था. व्यम् । स्वभेदात्मकप्रागभावान्तरप्रतियोगित्वेन तथापि प्रागभावसाधारण्यात् । केचित्तु विशेष्यदलस्थोत्पत्तिमत्त्वस्य प्रागभावप्रतियोगित्वमेधार्थः, स्वाधिकरणेत्यादिनिर्वचनं च सत्यन्तस्थस्यैव । न चैवं क्षणपदवैयर्यम् , सप्तम्यर्थघटितविशेषणविशेष्यभावेऽप्रवि. टाभेदान्वयेन वैयर्यदानासम्भवादित्याहुः । स्वाधिकरणमहाकालावृश्यप्रसिद्ध्या उत्पत्तिलक्षणे प्रथमक्षणपदम् । द्वितीयक्षणपदं तु घटपूर्वापरकालवत्तिस्थूलकालमादाय द्वितीयादिक्षणे. उत्पत्तिल. क्षणस्यातिव्याप्तिधारणाय, न त्वेतल्लक्षणे प्रयोजनशालि, तद्विनापि नित्यप्रागभावयोरिणात् । न च तथाप्युत्पत्तिलक्षणे कालिक सम्बन्धेन स्वावृत्तिप्रागभावप्रतियोगिक्षणसम्बन्धस्यैव सम्यवाद. धिकरणक्षणपदयोर्वैयर्थ्यमिति वाच्यम् । यथोक्तविशेषणविशेष्यभावेऽवयात् । यहाँ प्राचीनमते जन्यमात्रस्य कालोपाधित्वं ना. स्तीति न वैयर्थ्यम् । ननु क्षणत्वं स्ववृत्तिप्रागभाधप्रतियोग्यनधिकरण महाप्रलयात्मककालोपाधावप्रसिद्धम, अतस्तटि. तोत्पत्तिर्न चरमध्यसे, अत आह । क्षणश्चेति । अत्राप्यधेि. पश्वमाधारत्वं च कालिकसम्बन्धेन बोध्यम्, तेनानागतविषयकक्षा. नस्य भानोत्पत्तिक्षणोत्पन्नपदार्थप्रागभाषविषयकज्ञानस्य वा नक्ष.