________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः।१९
दीषितिः। कादाचिकत्वम् , उत्पत्तिमत्त्वं वा । उत्पत्तिश्वस्त्राधिकरणक्षणातिभागभावप्रतियोगिक्षणसम्बन्धः । क्षणश्च स्वाधेयपदार्थमागमा.
___दीधितिटिप्पणी। दि । तत्क्षणस्थस्य द्विक्षणावस्थायित्वे स्वाधिकरणद्वितीयक्षणप्राग. भावाधिकरणाद्यक्षणोत्पत्तिकत्वान्न यथोक्तरूपतेति क्षणमात्रस्थायि. स्वसिद्धिः। समयपदं कालिकसम्बन्धेनाधिकरणतालाभाय, अन्यथा विषयतया ज्ञानाधिकरणानागतघटादिप्रागभावाधिकरणक्षणोत्पत्ति कतया क्षणिकत्वेपि ज्ञानस्य यथोक्तरूपता न स्यात् । तादृशम. तियोगिकप्रागभावाधिकरणमहाकालाधुत्पत्तिकत्वस्योत्पत्तिमन्मात्र. वृत्तित्वादप्रसिद्धिरितिक्षणपदम् । नित्यव्यावर्तनाय कादाचित्कत्वम्। न.च प्रागभाववदेव भावाः स्युरित्यर्थान्तरं तवैव स्यादिति वाच्यम् । जन्यभावस्य प्रागभावसारश्यवत्त्वं बाधात् , न हि जन्यो भाव उत्पत्यभाववान् विनश्येत्, तथा सति जन्यभावत्वस्यैवासत्वात। यदि च तथाप्यन्तरत्व(१)शङ्का तदाऽऽह । उत्पत्तिमत्वं वेति । नन्यत्र विशेष्यदलस्था उत्पत्तिः स्वाधिकरणसमयध्वंसानधिकरणसमयसम्बन्धरूपा वक्तुं न शक्यते, वक्ष्यमाणमहाप्रलयप्रसिद्ध्य. सङ्गतत्वापः, तादृशध्वंसाप्रसिद्धरत आह । उत्पत्तिश्चेति । सत्यन्तवलप्रविष्टोत्पत्तिस्तु स्वाधिकरणसमयध्वंसानधिकरणेत्यादिरूपैव, क्षणाप्रवेशेन लाघवात्, न तु निरुक्तोत्पत्तिरपि तत्र निवेशिता, तथा सति क्षणिकत्वलक्षणे क्षणपदस्यासत्प्रयोजनत्वापत्तेः । तथाहि, उत्प. तिलक्षणे क्षणनिवेशने स्वाधिकरणसमयप्रागमावाधिकरणं यत स्थाधिकरणक्षणावृत्तिप्रागभावप्रतियोगिक्षणरूपं तत्सम्बन्धाभाव इत्य. स्यैव सम्यक्त्वात् । स्वाधिकरणसमयध्वंसानाधिकरणेत्याशुत्पत्तिप्र. पेशे तु न क्षणपदवैयर्यम् । तथाहि, क्षणिकलक्षणे क्षणपदादाने स्वाधिकरणसमयप्रागभावाधिकरणसमयः स्वाधिकरणसमयभ्वं. सानधिकरणसमयो यस्य तद्रिनत्वे सतीत्यर्थकरणेप्यसम्भवः,
...(१) समावस्येवतत्त्वस्यादपुस्तके पाठः।
.. . .