________________
१८
मात्मतस्वविवेकः
कल्पलता ।
बाधनिरासमन्तरेणोच्यमानमव्यात्मनि प्रमाणमतन्त्रमेवातो विशिष्ट (१) आत्मनि बाघकमाशङ्कय निराचष्टे । तत्रेति । नैरात्म्यवादिनामस्मदभिमतात्मनि बाघ (२) कान्येतान्येवेति क्रमशो (३) निरसनीयानि, बेदान्तिनोप्यापाततो नैरात्म्यवादिन एवेति तन्मतमपि दूष्यत एव (४), तथा च श्रुतिभ्यः समधिगते (५) प्यास्मनि सङ्कसुकता निवृत्तये (६) न्यापः प्रवर्तनीयः, स च बाधनिरासमन्तरेण नाङ्गं (७) धारयतीति प्रथमं बाध(क) निरासारम्भ इति भावः । क्षणभङ्गादिपदं च तरसाधकप्रमाणपरम् । तत्र क्षणभङ्गे नित्यत्वभङ्गः । बाह्यार्थ - भने ज्ञानभिन्नात्मनोऽसिद्धिः । बाह्यत्वं च ज्ञानभिन्नस्वमेव (८)| गुणगुणिभेदभङ्गेपि तथा ( ९ ) । अनुपलम्भे तु स्वरूपस्यैवासिद्धिः । शरीरादिभिन्नात्माननुभयश्चात्रानुपलम्भः ।
दीधितिः ।
क्षणभने विप्रतिपतिः । शब्दादिः क्षणिको न वा । क्षणिकत्वं चस्वाधिकरणसमयप्रागभावाधिकरणक्षणानुत्पत्तिकत्वे सति
दीधितिटिप्पणी ।
तैः शब्दादेरेव पक्षीकरणात् शब्दादिरित्युक्तम् । स्वाधिकरणेत्या
(२) दभिमतात्मबाध - पाठः ।
(४) तन्मतमपि दूष्यमेव - पुण० पु० पा० ।
(३) अस्थिरतानिवृत्तय इत्यर्थः ।
(१) विशिष्य - पुण० पु० पा० । (३) तान्येव भागशो-पाठः । (५) समवगते - पाठः ।
(७) स च न बाधकमिरासमन्तरेणाङ्गं - कलि० मु० पु० पा० ।
(८) बायं च ज्ञानभिन्नमेव - पु० पु० पा० । (९) शानभिन्नात्मनोऽसिद्धिरित्यर्थः ।