________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः । १७
कल्पलता ।
स्वस्वज्ञानमेवेस्थत उक्तम्, यदि नैरात्म्यमिति । अयरनसिद्धत्वात् तेषामप्येतादृशं ज्ञानमनादेयमित्यर्थः । आत्मतत्त्वं विविच्यत इति । शरीरादिभ्यो नित्यः सुख (१) ज्ञानादिगुणवानात्मा विवेकेन भेदेनोपदर्थत इत्यर्थः ॥
तत्र बाधकं भवत् (२) क्षणभङ्गो वा (३) बाह्यार्थभङ्गो वा (४) गुणगुणिभेदभङ्गो वा अनुपलम्भो वेति ।
दीधितिः ।
सति च बलवत्तरबाधकप्रमाणे साधकसहस्रस्याप्यकिश्चि करत्वात् तदेवादौ निरस्यति । तत्रेत्यादिना । क्षणभङ्गेत्पादौ भङ्गपदं (५) भङ्गसाधकमानपरमिति वदन्ति ॥
दीधितिटिप्पणी ।
तदेव बाधकमेव । स्वरूपतो भेदस्याबाधकत्वादाह । भङ्गपदमिति । भङ्गसाधकेति । तथा च तादृशमानाद्भङ्गार्थसिद्धिरेव स्थिरत्वे बाधः, बाह्यार्थभेदभङ्गसिद्धिर्गुणगुणिभेद भङ्गसिद्धिश्च ज्ञानसुखाद्याश्रयात्मबाधः । वस्तुतस्तु (६) ज्ञायमानकरणतामते ताहशभङ्ग एव बाधकमिति यथाश्रुतमेव सम्यक् ॥
(१) नित्यसुख - पाठः ।
(२) अयमेव पुणता मकरसम्मतः प्रकृतानुगुणश्च पाठः । तत्र बाधकं भवदात्मनि - काल० मु० पु० पा० । तत्रात्मनि बाधकं भवत् - इति पाठो मथुरानाथसम्मतः ।
(३) क्षणभङ्गो वा स्यात् - पुण० पु० पा० । ( ४ ) बाह्यात्मभङ्गी वा पाठान्तरं पुण० पु० । (५) अयमेव टिप्पणीकृन्मतः पाठः । भङ्गत्रयं - इति त्वन्यसम्मतः ।
(६) वदन्तीत्यनेन सूचितमस्वरसं प्रकटयितुमाह । वस्तुतस्त्विति । न च ज्ञायमानकरणतामतेपि स्थैर्याद्यभावस्यैव क्षणभङ्गादिरूपतया साध्याविशेषेण क्षणभङ्गादेः स्थैर्याद्यभावसाधकत्वरूपस्थैर्यादिबाधकत्वानुपपत्तिरिति वाच्यम् । ध्वंसाप्रतियोगित्वरूपस्थैर्यस्याभावानुमाने क्षणिकत्वस्य हेतुत्वेनैव तस्य साध्यः विशेषविरहात् । एतादृशस्थर्यस्य च तन्मते. ध्वसेऽलीके वा प्रसिद्धेः, तन्मते ध्वसस्याप्यनन्तत्वाभ्युपमात् ।
३