________________
आत्मतत्वविवेकः
कल्पलता ।
यामध्यात्यन्तिकदुःखहानोपाये न वैदुष्यमिति भावः । आकर्णयन्तीति श्रौतं ज्ञानमभिप्रैति (१) । तच 'आत्मा पाअरे श्रोतव्यः' इत्याद्युपनिषदां श्रवणात् । एवकारेण लभ्यमप्यन्ययोगव्यवच्छेदं काशी मरणादेः स्वातन्त्र्येण मोक्षोपायत्वशङ्कां निराकर्ते पुनराह । नान्यदिति । (२) यद्वा उपायमेव तत्वज्ञानमिति विशेषणसङ्गत ए (बायमे) वकारस्तत्त्वज्ञानार्थिप्रवृत्ति (३) वैफल्यशङ्कानिरासाय । ननु भवतु तत्वज्ञानं मोचहेतुस्तथाप्यात्मतत्वं किमिति विविच्यत इत्यत आह । आत्मैव तवतो ज्ञेय इति । ननु बौद्धा नैरात्म्यज्ञानं तत्त्वज्ञानमाहुः तथा च कथमेकवाक्यतेत्यत आह । प्रतियो. ग्यनुयोगितयेति । तेषामपि प्रतियोगितया आस्मतश्वं ज्ञाने (४) स्फुरतीति मतं यत इति भावः । यद्वा यथा देहेन्द्रियादिभ्य आत्मा भिन्न इति तत्त्वज्ञानं तथात्म. नः शरीरादिकं भिन्नमित्यपि तत्वज्ञानं देहेन्द्रियादिहानौपयिकमेवेति दर्शयति । प्रतियोगीति । नन्वहं गौर इत्यादिप्रकारकमात्मज्ञानमयत्न सिद्धमेवेत्यत आह । नैसर्गिकमिति । स्वाभाविकम् अयत्नसिद्धमिति यावत्, अहं सुखीत्यादिप्रकारकात्मज्ञानस्य तवज्ञानस्वेपि(५) न मिथ्याज्ञाननिवर्तकस्वमतस्तदप्यतत्वज्ञानमेवेति भावः । ननु नैरात्म्यवादिनां शरीरेऽहं प्रत्यय
(१) अभिप्रेतं - पु० पु० पा० ।
(२) नान्यदिति । इति पाठमनुसृत्य व्याख्यातम् । नान्यमिति । - पुण० पु० पा० 1 (३) तत्त्वज्ञानार्थे प्रवृत्ति - पाठः ।
(४) आत्मतत्वज्ञानं - पाठः । आत्मतत्त्वज्ञाने -- पुण० पु० पा० ।
(५) प्रकारकात्मतत्वज्ञानस स्वेपि-पुण० पु० पा० ।