________________
टिप्पणीसमलङ्कतदीधिति कल्पलताख्यटीकास्यविभूषितः। १५ ज्ञानमतत्त्वज्ञानमेवेत्यत्राप्येकवाक्यतैव वादिनामत आत्मतत्वं विविच्यते ।
दीधितिटिप्पणी। प्यम् । श्रवणमननादिजन्यात्मज्ञानमेव तत्त्वज्ञानमिति हि परमार्थः ॥
कल्पलता। प्रेक्षापत्प्रवृत्यर्थमभिधेयं(१) प्रयोजनं च दर्शयति । इहेति। इह अन्धे,आस्मतस्वं विविच्यते इति सम्बन्धः। यदा इह संसार, तत्वज्ञानमेव तदुपायमाकर्णयन्तीति सम्बन्धः । नन्वात्मतत्वषिवेकस्यासुखस्वाददुःखातावस्वाध न पुरुषार्थत्वमतः कथं तदथिनोऽत्र प्रवर्तन्तामत आह । तदुपायमिति । दुःखहानोपायामित्यर्थः । पुरुषार्थसाधनस्वादात्मतत्त्वविवेकोपि पुरुषार्थ एवेति भाषः । भवेदेवं यदि दुःखहानमपि (मुख्य) पुरुषार्थो भवेत्, न त्वेषम् , सुखेच्छया तत्र वृत्तरत आह(२)। निसर्गप्रतिकूलस्वभावमिति । अतः स्वरसत एव तद्धानेच्छेत्यर्थः । ननु दुःखमपि सुखाभावानान्य. दित्यत आह । सर्वजनेति । सर्वजन(प्रतीति)साक्षिकं तदित्यर्थः । आत्मानमधिकृत्य प्रवर्तत इत्यध्यात्म शास्त्रम् । एकवाक्यता ऐकमस्यम् । तथा च सर्वतान्त्रिकसिड तस्वज्ञानस्य मोक्षोपायत्वमित्युक्तम् । तथाप्य. नपेचिताभिधानं माभूदत उक्तम्, अनुसरन्तश्चेति । मोक्षोपायमनुसन्दधाना इत्यर्थः । अनुसरणं प्रति हेतुः,भविद्वांसः (३) अहिकण्टकादिदुःखहानोपायविद्वत्ता.
(१) प्रेक्षावत्प्रवृत्यङ्गमभिधेयं-पाठः। (३) तत्प्रवृत्तेरत आह-पाठः । तत्र प्रवृत्तेरत भाइ-पुण० पु० पा०। (३) अविद्रास इति । --पुण० पु. पा०। ।