________________
भारमतत्वविवेका. .. या चात्मैव तत्वतो ज्ञेयः । तथाहि, यदि नैरात्म्य(१) यदि वात्मास्ति वस्तुभूतः, उभयथापि नैसर्गिकमात्म
दीधितिः। प्रतियोगितयेत्यभिहितम् । परे तु आत्मनः शरीरादिभिन्नत्वस्येव शरीरादेरात्मभिनत्वस्यापि ज्ञानं मोक्षहेतुरिति तथोक्तमियाहुः । नन्वासंसारमनुवर्तमानोऽस्येव सर्वेषामहंमत्ययसन्तानो न पुनरपवर्गवार्तेत्यत आह । तथाहीत्यादि । वस्तुभूतः देहादिमिमो. ऽनादिनिधनो ज्ञानादिमान् । नैसर्गिकम् गौरोऽहमित्याचाकार कमनादिदेहाभेदवासनासम्भूतम्, आत्मज्ञानमतत्वज्ञानमेव, असत एवात्मनो भानाव, देहाभेदावगाहनाचा देहसम्भेदानवगा. हि च कादाचित्कमहं सुखीत्यादिकं तत्वज्ञानं बलवता मिथ्या. ज्ञानसन्तानेन तिरस्कृतत्वाम कार्यक्षममिति भावः ।।
दीधितिटिप्पणी। ति । एवं च हेतुत्वादित्यस्य प्रयोजकत्वादित्यर्थः । तथोक्तम् प्रतियोगितया चोक्तम् । परे स्वित्यनेन ताशमानस्य मननरूपतया नत. स्वज्ञानपदार्थतेत्यस्वरसो दर्शितः। नन्वित्यादि । तथा चान्वयव्यभि. चार इत्यर्थः । तथा होत्यादिमूलस्यायमर्थः, नैरात्म्यवादिमते नैया. यिकमते च नैसर्गिकं गौरोऽहमित्यादिकमात्मज्ञानमतत्त्वज्ञानमेव, तथा च नान्वयव्यभिचार इति भावः । वस्तुभूत इत्यस्यैवार्थकथ. नंज्ञानादिमानितिपर्यन्तम् । सम्भूतपर्यन्तं नैसर्गिकमित्यस्य व्याख्या। अतत्वज्ञानमेवेत्यत्र हेतुः, असत एवेति । नैरात्म्यवादिमते गा. रोऽहमित्यादावलीकात्मन एव विषयत्वात् । द्वितीयमते(२) स्वाह । देहेति । ननु देहासम्भिन्नात्मज्ञानसत्त्वे कुतो न मोक्ष इत्यत आह । सम्भेदानवगाहि चेति । मिथ्याशानम् अभेदभानम् । तिरस्कारः प्र. तिबन्धः । कार्यम् अपवर्गः । वस्तुतोऽहं सुखीत्यादिकमपि हामं देहाभेदावगाह्येव, प्रत एक पक्ष्वादिभिधाविशेषादिति शारीरकभा
(१) नैरात्म-पुण० पु० पा०। (२) मितीयमाने-इत्यादर्शपुस्तके पाठः ।