________________
टिप्पणीसमलङ्कतदीधिति - कल्पलताख्य टीकाद्वय विभूषितः । १३
दीधितिः ।
दपि (१) प्रवर्तन्ते, न चाप्रवर्तमाना अपि कर्माशयेन सीव्यन्ते, (२) न चान्तरेण कर्माशयं सम्भव भोगस्येति भवति नैरात्म्यदर्शनं साधनमपवर्गस्येति केचित् । अपरे पुनरनादिनिधनमात्मानं न्यायादिना निर्णयन्तस्तदीयं तवज्ञानमेव न्यायागमाभ्यां मोक्षहेतुमाचक्षत इति । अभावज्ञाने प्रतियोगिज्ञानस्य हेतुत्वात्
टिप्पणी | किमत आह । न चाप्रवर्तमाना अपीति । सीव्यन्तं युज्यन्ते । न चाप्रवर्तमानस्याऽपि पुरुषस्यान्यकृत्यधीनगङ्गाजल संयोगादिना कर्माशयोत्पत्तिरिति व्यभिचार इति वाच्यम् । एतन्म ते ताशपुरुषस्यान्यक्कृत्यादिना कर्माशयानुत्पादात्, अस्मन्मते तत्त्वज्ञानिनामिव | केचन मन्वत इत्यस्यार्थकथनं केचिदिति - इदानीमुपदर्शितश्लोकस्य शेषार्धव्याख्यामाह । अपरे पुनरिति । तत्राऽन्यशब्दोपादानादत्रापि तत्पर्यायापरशब्देनोपात्तम् (३) । अनादीत्यादिना स्थिरत्वकथनम् । न्यायवेदानुसारिण इत्यस्य व्याख्या न्यायागमाभ्यामित्यादिः । तदीयं तत्वज्ञानम् तदनुयोगिकमितरभेदज्ञानमित्यर्थः । तच्च आत्मा इतरेभ्यो भिद्यत इत्यादिरूपमित्यनुयोगितयात्मज्ञानं भवति कारणमिति भावः । आद्यमतीय प्रतियो गितयेत्यत्र व्याख्यामाह । अभावेति । न च तन्मतकथन एवेदमुचितमिति वाच्यम् । प्रतियोगीति मूलस्य यदा व्याख्यातं तस्येव प्रयोजनस्योक्तत्वात् ? । न चात्माभावरूपतत्त्वज्ञाने प्रतियोगिनो १ विषयतया तेनैव तवतो ज्ञेय इत्यत्र हेतोः सङ्गतत्वं तत् कथमिदं विहाय कारणीभूतज्ञानविषयतयास्य शेयत्वमानीतमिति वाच्यम् । तन्मतेऽभावज्ञान स्यालीकविषयत्वात्तत्त्वतो ज्ञेय इत्यनुपपत्तेस्तथाभिधानम् । यद्यपि तन्मतेऽभावज्ञानहेतुप्रतियोगिज्ञानस्यापि सविकल्पकतयालीकविषयत्वमेव, तेषां निर्विकल्पकस्यैव सद्विषयत्वात् तथाप्यत्र प्रतियोगिज्ञानपदेन
मूलीभूतनिर्विकल्पकमेवोक्तमि
(१) किञ्चिदपि - पाठः ।
( ३ ) परे पुनरिति । तत्राऽन्यशब्दोपादानादत्रापि तत्पर्यायपरशब्देनोपान्तम् - इत्यादर्शपु
स्तके पाठः ।
( २ ) बध्यन्ते, -
|:2lb