________________
R
आत्मतस्वविवेकः
दीधितिः ।
इति । सर्व एव हि भोगभाजं (१) स्थिरतरमात्मानं मन्वानाः
सुखादिकं कामयन्ते यदाहुः,
'सुखी भवेयं दुःखी वा माभूवमिति तृष्यतः । यैवाहमिति धीः सैव सहजं सच्वदर्शनम् ॥'
इति । सत्त्वम् (२) आत्मा । कामयमानाश्च सुखादिकं विहितं निषिद्धं वा साधनम (३) स्यानुतिष्ठन्तः कर्माशयानाचिन्वाना (४) जन्मादिकमनुभवन्ति, यदि पुनरमी किमपि नाहम्, नाहमास्पदमस्ति किञ्चिदपि वस्तु स्थिरम, विश्वमेव क्षणभङ्गुरमलीकं वेत्यत्रधारयेरन्, न किञ्चिदपि कामयेरन्, न चाकामयमानाः केचिदीधितिटिप्पणी ।
जाङ्गलिकैर्निर्विषीकरणमिवेत्यादिना (५) । न चात्मनोऽसत्वमेव तथा, तथा सत्यात्मैव तत्त्वतो ज्ञेय इत्यस्याऽसङ्गत्यापत्तेः । नैरात्म्यदृष्ट्या मेव मानमाह । सर्व एव हीति । हि यस्मात् सर्व एव जना भोगभो. जिनमात्मानं स्थिरतरं मन्यमानाः ममात्मा पश्चादपि वर्तिष्यते एवं मन्यमाना एव भाविसुखादिकामनया संसारे प्रवर्तन्ते, न त्वस्थिरं मन्यमानाः प्रवर्तन्त इत्यर्थः । अस्थिरत्वनिर्णये केषामप्यप्रवृत्तेः (६) सुस्थिरं मत्वैव कामयन्त इत्यर्थः । अत्र साधकमाह । यक्षहुरिति भवेयमिति । अहमुसरकाले सुखवान् भविष्यामीति ज्ञानं स्वस्य स्थिरत्वज्ञानपूर्वकमेवेत्यर्थः । इति तृष्यतः इतीच्छावतः पुरुषस्य याऽहमिति धीः सव सहजं प्राकृतिकं अभद्रमात्मज्ञानमिति । ननु सुखादिकं कामयन्त इत्यादिना किमायातमत आह । कामयमानाश्वेति । सर्वत्र (सर्व) एव हीति विशेष्यम् । अस्य सुखादेः । कर्माशयान् धर्माधर्मान् । अचिन्वानाः चयं कुर्वाणाः । अस्थिरत्वभावनोपयो गमाह । यदीति । यदि पुनरमी जना इत्यवधारयेरन् तदा कामनां न कुर्वीरनित्यर्थः । तदा किं स्यादित्याह । न चेति । तदाऽपि
1
( १ ) भोगभाजः पाठः । ( २ ) सत्त्व:- पाठः । ( ३ ) विहितनिषिद्धं साधनम् -- पाठः । (४) अनुतिष्ठन्तो धर्माधर्मानाचिन्वानाः पाठः । (५) मूलकृदाचार्य इति शेषः । (६) फलानुपधान निश्चयद्वारा नैरात्म्यदृष्टिः प्रवृतेः परिपन्थिमीति भावः ।