________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः । ११ दीधितिः ।
सम्वज्ञानमेवेति । असाधारणमिति शेषः । तस्वज्ञानम् तत्वज्ञानविशिष्टकारणकलापमिति केचित् । काशीमरणादेः स्वातन्त्र्येण मोक्षतुत्वं निराकर्तु (१ मेवकारार्थं स्पष्टपति । न ततोऽन्यमिति । तत्वज्ञानस्य मोक्षहेतुत्वे आत्मन इति कुत इत्यत आह । मतीत्यादि । (२) प्रतियोगितयानुयोगितया चेत्यर्थः । मतभेदेन चेदम् । तदुक्तम्, 'नैरात्म्य मोक्षस्य हेतुं केचन मन्वते ।
आत्मतश्वधियं त्वन्ये न्यायवेदा ( ३ ) नुसारिणः ॥' दीधितिटिप्पणी | ईश्वरस्याऽपि वेदे जनकत्व श्रुतेस्तस्वज्ञानमेवेत्यवधारणासम्भवादाछ । असाधारणमिति । अन्वयप्रदर्शनार्थे (४) व्युत्क्रमनिर्देशः । असा• धारणपदमपूरयित्वैव एवकारार्थरक्षकस्य मतमाह । तस्वज्ञानमिति । शब्दास्तथावधारणाभाव एव केचिदित्यस्वरसः । न ततोऽन्यमि. त्यादेर्वैयर्थ्यमाशङ्कयाह । काशीमरणादेरिति । स्वातन्त्र्येण तस्व ज्ञानानपेक्षया । अन्यमितीति । अत्राप्यसाधारणमिति बोध्यम् । कुत इति । अतेरुपादानं कुत इत्यर्थः । मतभेदेन चेति । केषाश्चिI न्मते प्रतियोगितया केषाञ्चिन्मते चाऽनुयोगितया आत्मा तवतो ज्ञातव्य इत्यर्थः । तदेवाह । तदुक्तमिति । आद्यार्ध प्रतियोगितयेति अन्स्यार्धमनुयोगितयेति मते । नैरात्म्यदृष्टिमित्यादि । आत्मनः पारमार्थिकत्वेऽपि नैरात्म्यभावनं मोक्षहेतुरित्येतन्मतम्, यद्वक्ष्यति
(१) काशी मरणस्य साताम्मोचहेतुत्वे तदुत्तरमात्यन्तिकदुःखनिवृत्तिरूपमोक्षस्यवोत्पादेन स्वरूपतस्तद्विशोधनो दुःखमात्रस्यैव तत्कालमुत्पादासम्भवेन उद्बन्धनादिप्रतिषिद्धक्रिययाऽपि काशी - मरण एव मुमुक्षुः प्रवर्तेत, न तु नियमतो नान्तरीयकदुःखजनके श्रवणादाविति शुश्रूषेोरेवाभावात् प्रन्थारम्भप्रयासवैफल्यवारणाय काशीमरणस्य साक्षान्मोक्षहेतुत्वं निराकृतम् । एवं च सत ज्ञानद्वारेव तस्य मोक्षहेतुत्वात् काशीमृतस्यापि कर्मफलोपभोग सम्भवेनोद्बन्धनादिना मरणे भैरवयामनादिफलभबादेव न प्रवृत्तिरित्युपपद्यते । न च तथाप्यनर्थाननुबन्धिनि कालाधी नकाशी मरणे श्रवणादिपरिहारेण कथं न प्रवृत्तिरिति वाच्यम् । शऋविहितकामा दिबहूपसर्गवत्या काया तस्यामैकान्तिकतया सद्योमोक्षप्रद विज्ञानापाये हस्तगते श्रवणादावेव बुद्धिमता प्रवृत्तेराक्वयकतया प्रारम्भवैफल्यासम्भवादिति भावः ।
(२) प्रतियोगीत्यादि - पाठः ।
(३) न्यायतत्त्वा-कालि० मु० पु० पा० ।
(४) एकवाक्यतयेत्यस्याकर्णयन्तीत्यनेनेत्यादिः । वेदजन्यज्ञानेऽमामाण्यश परिहारस्तन्मयो जनम