________________
टिप्पणीसमलङ्कतदीधिति-कल्पलतास्पटीकाद्वयविभूषितः। .
कल्पलता। नप्रसिद्धाय । जगतामीशाय जगजननानुकूलकृति(१): शक्तिमते, नमः । वेदप्रामाण्यग्रहोपयिकमाप्तत्वं दर्श यितुं पितृत्वेन तं रूपयति । पित्र इति । अविप्रलम्भकायेत्यर्थः । पूर्वगुरूत्तमाय, पूर्वगुरवो मनुकापलादयः स्तेभ्य उत्तमायेत्यर्थः । तथा चेश्वर एष वेदवक्ता तदनुस्मतारः परं मन्वादय इति भावः । रूपकस्योपमा. भेदत्वेन तनिर्वाहाय पितृसाम्घमाह | स्वाम्यमिति । पितुरपि जनितेषु खाम्यम् , ईशस्यापितधैव तेषु यथेष्टविनियोगाधिकार इत्यर्थः । निजमिति । स्वाभाविक मित्यर्थः । आदी जनितेष्विति सम्बन्धः । तथा च ज. नकस्यापि जनकत्वमीश्वरस्य ध्वनितम् । अन्यदपि पितृसाम्पमाह ततः पालनमिति । हितोपदेशतदाचरणादिना रक्षणमित्यर्थः । अन्यदपि पितृसाम्यमा. है । व्युत्पत्तेरिति । यथा पिता अध्यापनादिना पुत्रान व्युत्पादयति तथेश्वरोऽपि प्रयोज्यप्रयोजकदेहभेद. माश्रित्य प्राणिनो गवादिपदजाते पटादिनिर्माणे च व्युत्पादयतीत्यर्थः । साम्यान्तरमाह । हिताहिते. ति। (२)हितविध्यहितव्यासेधयोः सम्भाधन (प्रापणं) ज्ञापन मिति यावत् । हितविधिः स्वर्गकामो यजते. त्यादिः, अहितव्यासेधो न कलशं भक्षयेदित्यादिः, तदुभयमुपदिश्य ज्ञापयति । ननु कथमत्र विश्वास इत्यत आह । भूतोक्तिरिति । यथा पितुः पुत्रान् प्रति विधिनिषेधयोः सत्योकिस्तथेवरस्याऽपीत्यर्थः । स. 6) महल चलि गुण० पृ० पा०। (हितातियो-हस्याधिकं कलिकालामुद्रितपुस्तक ।
REET
१० पु. पा.
(