________________
१९४
आत्मतत्वविवेकः पत्तेः । एवं तह(१)व्यवहारे स्ववचनविरोधः स्यादिति चेत्, तत् किं(२) स्ववचनविरोधेन तेषु प्रमाणमुपदर्शितं भवेत(३), व्यवहारनिषेधव्यवहारोपि(४) वा खण्डितः (स्यात्)(५), अप्रामाणिकोऽयं(६) व्यवहारोऽवश्याभ्युपगन्तव्य इति वा भवेत् ।
दीधितिः। प्रमाणाधीन एव,तत्राह । एवं तहाँति । स्ववचनम् असया(७). श्रयादौ प्रमाणाभाव इति वचनम् । व्यवहारेनि । तेष्वित्य(८). नुषज्यते ॥
दीधितिटिप्पणी। नमपि भविष्यतीति भावः। प्रमाणाधीन एव, त्वया उच्यत इति शेषः॥
कल्पलता।
अधिक इति । अन्वयव्याप्त्यपेक्षयात्र बहूनि दू. षणानीत्यर्थः । तान्येवाह । आश्रयेति । आश्रयपदं साध्याभाषपरम्, तदाश्रित्य व्यतिरेकव्याप्तिप्रवृत्तः, .
(१) ननु साध्यज्ञानमात्रं तद्व्यतिरेकग्रहीपयिक, न तु साध्यप्रमा, शशशृङ्गनास्तीति व्यवहारात्, अन्यथा न तत्र व्यवहार इत्यपि वचनं व्याहतम्, अस्यैव व्यवहारस्य सत्त्वात, तथा चाप्रयादी प्रमाणाप्रवृत्तावपि नोकदोव इत्याह । एवं तहीति । -भगीरथठक्कुरः। . . .
(२) तत किमिति । न हि तत्र व्यवहारः प्रामाणिकः सम्भवति, अलीकानामकारणतया प्रत्यक्षाविषयत्वात् , ज्यातिप्राहकतादात्म्यतदुत्पत्त्योरभावेऽनुमानासम्भवादित्यर्थः ।-भगीरथ. ठक्कुरः। (३) भवति-काले० मु० पु० पा० (१) व्यवहारो-काल. मु० पु० पा० ।
(५) व्यवहारनिषेधेति । प्रवस्तुविषयकस्य व्यवहारस्य यो निषेधरूपो व्यवहारः सोऽपि खण्डितः, तथा च व्यवहारनिषेधोपि तत्र न कर्तव्य इत्यर्थः।-भगीरथठक्कुरः।
(६) अप्रामाणिकोपि-पुण० पु० पा० । अप्रामाणिक इत्यस्य प्रमाणाविषयगोचर इत्यर्थः । (0) स्वपदस्य बौद्धपरत्वे इष्टापत्तराह । असतीत्यादि।-गुणानन्दः।
(८) विषयाकालायामाह । तेष्विति । मौलव्यवहारनिषेधव्यवहारपदं चासत्याश्रयादी प्रमाणाभाव इतिवधनपरमित्यवधेयम् । एवमपि यथायथमवसेयम् ।-गुणानन्दः ।