________________
टिप्पणीसमलङ्कृतदीधिति-कल्पलताक्पटीकाद्वयविभूषितः । १९३ अवस्तुनि प्रमाणाप्रवृत्तेः, प्रमाणप्रवृत्तावलीकत्वानुप
दीधितिः ।
न हि विरोधसहस्रेणापीत्यादि, तद्विशेषणस्या ( १ ) सत्त्वलक्षणस्य साध्यस्याप्रसिद्ध्या च । हेत्वासिद्धि: हेतोः क्रमादिविरहस्यामसिद्धिः, सति त्वया तदनभ्युपगमात् असत: ( २ ) प्रमाणागो. चरत्वात्, पक्षस्य (३) हेतोश्चाप्रसिद्ध्या पक्षधर्मत्वासिद्धिव । - ष्टान्तासिद्धिः दृष्टान्तस्य अलीकस्याप्रसिद्धिः, तस्य साध्य ( ४ ) साधनयोश्चाप्रसिद्ध्या (च) तत्र तदुभयक्त्वाप्रतीतिः (५) । अलीकत्वा(६)न्नास्त्येवासति पक्षादौ प्रमाणम्, अनुमानं पुनरसख्यात्यैव व्यवहारवत् वर्तते (७) अथ व्यवहारोपि
"
,
दीधितिटिप्पणी ।
नैयायिकमते सिद्धत्वादाह । परेणेति । बौद्धेनेत्यर्थः । यद्वक्ष्यति, परमतेनेति शेषः, अन्यथा नैयायिकमतेन न हीत्युक्तावसङ्गतं स्यात्, स्थिरे नैयायिकः प्रत्यक्षाङ्गीकारात् एवं च मूले दर्शयितुमित्यनन्तरं स्वयेति शेषः । पक्षासिद्धिरित्यत्र हेत्वन्तरमप्याह । तद्विशेषणस्येति । तथा च सन्दिग्धसाध्यधर्मिणः पक्षस्यात्रोभयथाऽसिद्धिः, विशे. व्याभावात् साध्यरूपविशेषणाभावाच्त्र, एवं चाद्ये हेतुः प्रामाणि करवानभ्युपगमादिति, द्वितीये हेतुस्तद्विशेषणस्येति । तस्य दृष्टा न्तस्य । व्यवहारवदिति । यथाऽलीके व्यवहारः प्रवर्त्तते तद्वदनुमा•
( १ ) साध्याप्रसिद्धेरनुक्तत्वान् यूनतामाशङ्कय परिहरति । तद्विशेषणस्येति । अप्रसिद्ध्या चेत्यत्राश्रयासिद्धिरिति प्रागुक्तमनुषज्यते । गुणानन्दः ।
( २ ) असतश्च - पुण० पु० पा० ।
(३) ननु साध्यस्याप्रसिद्धावपि यथाऽप्रसिद्धसाध्यको व्यतिरेकी तथा त्वप्रसिद्धावपि स्यादत आह । पक्षस्येत्यादि । - गुणानन्दः ।
,
( ४ ) तस्य माध्य - कलि० मु० पु० पा० ।
(५) प्रतीतिश्व - पुण० पु० पा०| तत्र दृष्टान्तत्वेनाभिमते शशविषाणादी |
(६) प्रतिवन्दिमात्रस्य प्रकृतानुपपादकत्वादाह । अलीकत्वादिति । --गुणानन्दः ।
( * ) तख्यात्यैव प्रवर्तते व्यवहारवत् - पुण० पु० पा० । असति प्रमाणाभाव इतिवचनवादित्यर्थः ।
२५