________________
टिप्पणीसमलङ्कृतदीधिति-कल्पलताव्यटीकाद्वय विभूषितः । १९१
: कल्पलता ।
दादिभावमापन्ना इत्यर्थः । अस्य विरोधस्येति । आवृतानाषृतरक्तारक्तादिविरोधस्येत्यर्थः । आय इति । उभयदिगवच्छेदेना (ना) वृतत्व ( १ ) इत्यर्थः । द्वितीय इति । उभवदिंगवच्छेदेनानावृतत्व इत्यर्थः । तृतीय इति (२) । कचिदाघृतः कचिदनावृत उत्पन्न इत्य त्रेत्यर्थः । विरोधमाह । स एवेति (३) । कः (४) पुनरसाविति प्रश्नः । दिगन्तरावच्छेदेन (५) इत्युत्तरम् । अ विरोधमेवोपपादयति । यदि हीति (६) । अयं सिद्धा तवृत्तान्त इति । अञ्चलावच्छेदेन महारजन संयोगे - ऽपि दशावच्छेदेन तदभावान्न सर्वत्र रक्त (वि) भ्रम इत्यर्थः । एतावता तथैवेतिसहितं वेति (७) पत्रः पक्षोऽभ्युपगमेन (८) निरस्त इति सिद्धं सहकारिसम वधानासमवधानप्रयुक्ते करणाकरणे एकस्यामेव व्य क्ताविति ॥
*
एतेन व्यतिरेकपक्षोऽपि निरस्तः ।
दीधितिः ।
एतेन व्याप्तिविरहेण । व्यतिरेकपक्षः यत् क्रमयौगपद्यर
।
दीधिति । एतेनेत्यादिना क्षणिकत्व सत्स्वयोर्व्यतिरेकव्याप्तिदूषणे क्रमादि
(२) द्वितीय इति - कलि० मु० पु० पा० ।
(१) च्छेदेन तत्त्व-पा० २ पु० । (३) उत्पन्न इत्यर्थः - कलि० मु० पु० पा० ।
( ४ ) कश्च - कलि० मु० पु० पा० । प्रकारभेदेत्यादि इह तु नैवमित्यन्तेनैकः पूर्वपक्षप्रन्थः ।
कः - पुण० पु० पा० 1
(५) दिगन्त वच्छेद इति तु मूलप्रतीकपर्यालोचने युक्तमिव प्रतिभाति ।
(६) इत्युत्तरम् । – कलि० मु० पु० पा० । ( ७ ) सहितत्वेति- पुण० पु० पा० । (८) भ्युपगमनियमेन - पा० २ पु० । अनभ्युपगमेनेति तु युक्तम् ।