________________
१९०
आत्मतस्वषिवेकः
कल्पलता। एतावता प्रघट्टकेन सहकारिसमवधानासमवधा. नाधीने करणाकरणे इति यदुक्तं तत्समाहितम्, तथैवे. तिसहितं येति षष्ठं(१) पक्षं परप्रतिबन्दिमुखेन समा. धित्सुः प्रतिषन्दि(न)मुत्थापयितुं पीठ(२) रचयति । नन्विति । न हि तत्रैव तदैव(३) स एवास्ति नास्ति -चेत्यभ्युपगच्छाम इति यदुक्तम्, तत्संयोगशब्द(४). ज्ञानादावभ्युपगमेन तवापसिद्धान्त इति पूर्वपक्षिणो. भिसन्धिः । तेभ्य इति । सहकारिभ्य इत्यर्थः । इत्यः पीत्यतो(५) भवद्भिरिष्यते इत्यनुषङ्गः । नास्ति चेति । अतो विरोध इति शेषः । तथापसिद्धान्त इति वा शेषः(६)। व्यस्तान्यपीति । विशकलितान्यपी(७)त्यर्थः । रक्तादीति । अरक्तेऽपि भागे महारजनसंयो. गस्य व्याप्यवृत्तितया(८) रक्तधी(९)प्रसङ्ग इत्यर्थः । भेर्याकाशसंयोगस्य च सकलाकाशवृत्तितया सर्वत्र शब्दोत्पत्तिप्रसङ्गः, विभुकार्याणामसमायिदेशानुरो. धित्वात् । आदिपदेन सुखदुःखादिसङ्ग्रह (१०) । स्व. सिद्धान्तानुसारेणोपसंहराति । तस्मादिति । यद्वा त. स्मादिति । अतिरिक्तसंयोगपचे विरोधादुक्ता(११). दित्यर्थः । संयुक्तस्वभावा इति । अविरलदेशेनोत्प. ना:(१२) क्षणिकपरमाणव एव तथोत्पादाद घटप.
(१) वेति पूर्व-पाठः। (१) पीठमा-पा० १ पु.। .... (३) तदेव तत्रैव-कलि० मु० पु० पा० । (१) तत्संयोगे शम्दे-काल. मु.पु. पा० । (५) इत्यतोपीस्यतो-पा०२ पु०। (६) इत्यनुषङ्गः।-कलि० मु. पु० पा० । (.) विशकलितानी-पुण० पु० पा०। (८) संयोगस्य सर्ववृत्ति तया-पाठः।(९) रक्तत्व- पाठः। (१०) सुखदुःखादिपरिग्रहः-पुण० पु० पा० । — (११) पचे उकाविरोधा-पुण० पु०.पा०। (१२) पत्रा-कलि. मु० पु० पा० ।