________________
२८४
आत्मतत्त्वविवेकः
कल्पलता। समवधानसम्भवात् सहकारिप्रागभाव(प्र)ध्वंसावपि प्रतियोगिभिन्नकालावादाय तथा सम्भवा(१)त्यर्थः ॥ ____ न चतुर्थः, स हि न तावत् स्थितियोमपद्यनियमेन सम्बन्धिनोः, तदसिद्धः । इत एव(२) तत्सिद्धावितरे. तराश्रयत्वम , नियमसिद्धौ हि विरोधसिद्धि(३)स्तत्सिद्धौ च भेदे सति नियमसिद्धिरिति(४.)। न चान्यतस्तत्सि. . दीधितिः।
. . स हीति । सः विरोध:(५), सम्बन्धिनोरेकतर(सम्बन्धि)सवकाल नैरन्तर्येणापरस्य सम्बन्धिना(६)ऽवश्यं सत्वमित्येवं. रूपेण नियमेन तावन्न सिद्ध्यति(७), यतः तदसिद्धेः उक्तरूपनियमासिद्धः । इत एव विरोधादेव, नियमसिद्धौ उक्तरूपनि. यमसिद्धौ, (तत्सिद्धिः विरोधसिद्धिः,) तत्सिद्धौ विरोधसिद्धौ, भेदे सति सम्बन्धासम्बन्धलक्षणविरुद्धधर्माध्यासाद्धर्मिभेदे सिद्ध सतीत्यर्थः । ( एतावता ) चक्रके(ऽपि) परस्पराश्रय
दीधितिटिप्पणी। ... न चतुर्थ इत्यत्र हेतुः, स हीति, तश्चासङ्गतम् , अतो न सिद्धती. त्यस्य पूरणेनाह । स इत्यादि । यत इति हिशब्दार्थकथनम् । अत्रैव हेतुः, तदसिद्धेरिति । विरोधसिद्धिः कथं(८) नियमसिद्धिकारिणी. स्यतो भेदे सतीत्युक्तम्, तथा च विरोधाचक्रे (९) भिन्नः सम्बन्धो दण्डे च भिन्न एवेति नियमसिद्धिरिति ? । चक्रकेऽपीति । परस्परा. (१) सम्भवादि-कलि० मु० पु० पा० । सम्भवान्ने-पाठः । (२) तदसिद्धेः । अत एव-पुण पु० पा० ।। (३.)हि तसिद्धि-पाठः ।
(१) सिद्धिः -पुण: पु० पा०।. (५)स चतुर्थ इति भ्रमं निराकरोति । स विरोध इति ।-गुणानन्दः । (६ ) नैरन्तर्येणापरम्या-पुण: पु० पा०।
(0) तृतीयार्थस्य धर्मिण्यनन्वयात् पूरयति । सिद्धयतीति । हेतोरणमाह । यत इति । नियमरूपस्यानुकत्वादाह । उक्तरूपेति । -गुणानन्दः ।।
(८) कथनं-इति सर्वत्र पाठः। (९) चके दण्डे-पा० २ पु० ।