________________
-
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः। १८३ न द्वितीयः, सत्कार्यप्रतिषेधात(१)।
____दीधितिः। पागसत एव कार्यस्योत्पत्तेः प्रामाणिकतया स्वयापि सत्कार्यत्वनिषेधादित्याह । सत्कार्येति ॥
दीधितिटिप्पणी। त्वया क्षणिकत्ववादिना ॥
-
कल्पलता।
सत्कार्येति । अभावप्रतियोगित्वं भावस्य नास्ती त्यभ्युपगमे तव साथमतप्रवेशे(ऽप्य)पसिद्धान्तः क्ष. णिकत्वसाधनविरोधोनुभयविरोधश्चेत्यर्थः ।।
न तृतीयः, प्राक्प्रध्वंसाभावयोर्भावसमानकालत्वानभ्युपगमात् ।
दीधितिः। मागित्यादि । संयोगिनि संयोगस्य प्रागभावध्वंसयोः काल भेदेनैव वृत्युपममात्, अत्यन्ताभावस्य चा(२)वच्छेदभेदेन वृत्तौ विरोधाभावादिति भावः ॥
दीधितिटिप्पणी। संयोगिनीति । चक्रसंयोगिनि दण्डे तदेव(३) चक्रसंयोगाभावो विरुध्यते इतीहशाभावः कः, प्राग्ध्वंसादिः, (स) संयोगादिकाले यद्यक्रिीक्रियते तदा विरोधो दातव्यः, न चैवम् । नाप्यत्यन्ताभावः, तस्याव्याप्यवृत्तितया विरोधाभावादित्यर्थः॥
कल्पलता। प्रागिति । प्रागभाव(प्र)ध्वंसयोः प्रतियोगिसमानकालत्वानुपपत्तावप्यत्यन्ताभावमादाय सहकार्य(१) प्रतिक्षेपात्-पाठः । ( २ ) न्यूनत्वमुद्धरति । अत्यन्ताभावस्य चेति ।-गुणानन्दः । ( ३ ) तदैव दण्डे-पा० २ पु० ।