________________
१८२
आत्मतत्वविवेकः
कल्पलता। सहितमिति । येनावच्छेदेन प्रतियोगी(१) तेनैवाव. च्छेदेन तदेव तत्रैव (२) तदभावो न सम्भवतीत्याह। तथैवेति ॥
न प्रथमः, अनभ्युपगमात् ।
दीधितिः। अनभ्युपगमादिति । निरन्तरोत्पाद(३)क्षणिकत्व(४)योर. सिद्ध्या संयोगस्य, धर्मित्तित्वानुगत(५)प्रतीत्या चाभावस्या. तिरिक्तस्य सिद्धेरिति भावः ॥
दीधितिटिप्पणी । मुले, अनभ्युपगमात् । स्वाभावस्वाभाव्यस्येति शेषः । एतदेवो. पपादयति । निरन्तरेति । यदि निरन्तरोत्पादः क्षणिकत्वं (च) सिद्धं स्यात् तदा तत्कालीनेनैव संयोगकार्य(६)निर्वाहेतिरिक्तसंयोगो न सिद्ध्येत, न चैवम् । असिजेति संयोगस्यातिरिक्तत्वे हेतुः। प्रतीत्ये. त्यभावस्यातिरिक्तत्वे हेतुः॥
कल्पलता। अनभ्युपगमादिति । सम्बन्ध्यन्तरमेव सम्बन्ध्य. न्तरस्याभाव इति नाभ्युपगम्यते, अधिकरणस्वभा. वश्वा(७)भावो न भवतीति(८) निषेत्स्थत एवेति भाषः ॥
(१) प्रतियोग- कलि० मु० पु० पा०। (२) तत्रैव-कलि० मु० पु० पा० । (३) अनन्तरोत्पाद-कलि. मु० पु० पा०। (४) क्षणिकत्व----पुण० पु० पा० ।
(५) स्वरूपात्मकप्रतियोगित्वादेरिव तेन रूपेण तद्वृत्तित्वादिकमपि स्यादत आह । अनुग. तेति । इदमुभयात्मकत्वनिराकरणोपयोगि । अतिरिक्तस्येति । स्वस्य स्वाभावात्मकत्वाविरोधै स्वस्मिन् स्वं नास्तीति प्रत्ययस्यापि दुर्घटत्वमवसेयम् । -गुणानन्दः ।
(६) संयोगव्यवहार-पा०२ पु०।( . ) स्वरूपं चा-पुण० पु० पा०( 4 ) भावो-पाठः।