________________
टिप्पणी समलङ्कृतदीधिति - कल्पलताख्य टीकाद्वयाविभूषितः । १८५ अनियतोपसर्पणापसर्पणकारणप्रयुक्त
द्धि:, तदभावात, वाच सम्बन्धासम्बन्धयोः । नापि विनाशस्थाहेतुकस्वादयं विरोधोऽर्थात् सिद्धयति, तस्याप्यसिद्धेः । ध्रुत्रभाषित्वे तु वक्ष्यामः ।
दीधितिः ।
स्वमक्षतम् । मानान्तरा (१)नियमसिद्धिं (२) निराकरोति । न चेति । ननु प्रथमं सम्बद्धस्यासम्बद्धस्य वा पश्चात् कथमसम्बद्धस्वं सम्बद्धत्वं चेत्यत (३) आह । अनियतेति । अहेतुकत्वात् प्रतियोग्युत्तर (४)भाविहेत्वनपेक्ष (५) त्वात् । अर्थात् उत्पन्यनन्तरमेव भावानां नाशादेकस्य कालभेदेनापि सम्बन्धासम्बन्धा (६) योगातु । तस्य अहेतुकत्वस्य ( ७ ) । ननु यद्यस्य धुवभावि (८) तदुत्पत्यनन्तरमेव जायते, यथास्माकं समर्थस्य कार्यम्, भ वतां च ( ९ ) द्रव्यादेः परिमाणादि, धवभावी च भावस्य विनाश इत्यतोऽर्थाद्विरोधः सेत्स्यतीत्यत आह । भुवेति ॥ दीधितिटिप्पणी |
श्रयत्वस्य चक्रकत्वादिव्यापकत्वादित्यर्थः । नन्विति । प्रथमं सम्बद्धस्य पश्चादसम्बद्धत्वं प्रथममसम्बद्धस्य वा कथं पश्चात्सम्बद्धत्वमि ति सम्बन्धः । अर्थादित्यादि (१०) । भावस्य क्षणिकतया विभिन्नकालेऽवृत्ती कालभेदेन सम्बन्धासम्बन्धयोरेकत्रासम्भवात् सहानबस्थानरूपविरोधः सिद्ध इत्यर्थः । इत्यतोऽर्थादिति (११) । इदानीमुकन्यायेन एकत्र सम्बन्धासम्बन्धयोर्विरोधः सेत्स्यतीत्यर्थः (१२) ॥
( १ ) अव्यवहितोपक्रान्तत्वात्तत्पदं नियमपरमित्यवतारिका व्याजेनाह । मानान्तरादिति । - गुणानन्दः । (२) सिद्धिं कलि० मु० पु० पा० । (३) द्धत्वं वेत्यत - पुण० पु० पा० ।
( ४ ) अहेतुकत्वे सदातनत्वमसत्त्वं वा स्यादित्यत आह । प्रतियोगीति । प्रतियोग्यधिकरकालध्वंसाधिकरण क्षणोत्पत्तिकेत्यर्थः । गुणानन्दः । (५) नपेक्षित - कलि० मु० पु० पा० ।
( ६ ) सम्बन्धासम्बन्धवत्त्व - पुण० पु०पा०|
(७) विरोधपरत्वभ्रमनिरासायाह । अहेतुकत्वस्येति । - गुणानन्द | अहेतुत्वस्य-कलि० मु० पु० पा० । ( ८ ) धुवेति प्रामाणिकत्वसूचनाय, भावीत्यनेनैव सामञ्जस्यात् । - गुणानन्दः । (९) भवतां वा - पुण० पु० पा० । (१०) अर्थादित्यादिमूलम् - पा० २० (११) इत्याहार्थादिति इन्यादर्शपुर तके पाठ: । (१२) बिरोधः । यस्येत्यर्थः - इति सर्वत्र पाठः।
२४