________________
आत्मतत्त्वविवेकः
कल्पलता। सत्त्वक्षणिकत्वव्याप्तिग्रहानुकूलमेव प्रसङ्गविप. यंपान्तरमाशय निराकरोति । एतेनेति । पूर्ववदिति । जात्यभिप्रायणानकान्तिकत्वम् , न हि बीजजातीय. मुत्पन्नमात्रमेव करोति । या च व्यक्तिरुत्पत्यानन्तरमेव करोति तत्र तत्तत्सह(१)कारिलाभस्तन्त्रमित्यभिः प्रायेणान्यथासिद्धिरित्यर्थः(२) ॥
नापि तृतीयः, कृतकत्वानित्यत्वादेरपि(३) पर. स्पराभाववत्तामात्रेण(४) विरोधप्रसङ्गादिति ।
दीधितिः। 'तद्वत्तेति(५) पक्षं दूषयति । नापीति ॥
कल्पलता।
-
तद्वत्ता वा दण्डित्वकुण्डलित्ववदिति ( यत् ) पर्व (वि)कल्पितम, तदषयति (नापीति । विरोधप्र सङ्गादिति । तथा च तदुभयाध्यासाधीनधर्मिभेदप्र. सङ्गादित्यर्थः)॥
अस्तु तर्हि तस्यैव(६) तेनैव सहकारिणा सह(७) सम्बन्धोऽसम्बन्धश्चेति विरोधः । न। विकल्पानुपपत्तेः।
दीधितिः। चारि(८)बीजादीनां हि(९) सम्बन्धः संयोगोऽभ्युपेयते, (१) तत्र तदा तेन सह--पुण० पु० पा० ।( २ ) स्तन्त्रमित्यर्थः-कलि• मु० पु. पा०। (३) कृतकत्वानित्यत्वयोरपि–पाठः। (१) मात्रेणैव कलि० मु० पु० पा० । (५ ) तना वेति-पुण० पु० पा०। (६) तत्रैव-पुण० पु० पा० । तर्हि-पाठः । (.) सहकारिणा सह तस्यैव-पाठः । सहकारिणा-कलि० मु० पु. पा० ।
( ८ ) संयोगाव्याप्यवृत्तित्वस्याने व्यवस्थाप्यत्वात्तदनुसारणाह । वारीति । तन्मतमाह । स चेत्यादि । संयुक्तति । तेनैव रूपेण तस्य व्याप्यवृत्तित्वोपगमे दोषोऽत आह । अभावोऽपि चेति ।
(९) वारिबीजादीना-कलि० मु० पु० पा० ।
गुणानन्दः।