________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः। १७७
कल्पलता।
अनियमेति । पीजजातीय एव करणाकरणयोर्द. र्शनान्नेयं व्याप्तिरित्यर्थः । यमपीति । प्रसङ्गस्ताविप. ययश्वेत्यर्थः । अन्यथासिद्धिमाह । एकान्तेति । शि. लाशकलादावेकदाऽकारित्वे सत्यन्यदाप्यकारित्वं (१) स्वरूपा(२)योग्यत्वप्रयुक्तम् (३), स्वरूपयोग्यस्य त्वेक. दाऽकरणं(४) सहकारिवैकल्यप्रयुक्तं यावत्सत्वं च करणं सहकारिलाभप्रयुक्तमित्यर्थः ॥
एतेन यद्यत्करोति तत्तदुत्पन्नमात्रम् , यथा कर्म विभागम् , यदुत्पन्नमात्रं यन्न करोति तन्न कदाचिदपि, यथा शिलाशकलमङ्कुरमिति निरस्तम् । अत्रापि पूर्ववदनेकान्तान्यथासिद्धी दोषा(५)विति ।
दीधितिः। एतेनेत्यादि । उत्पन्नमात्रम् , करोति(६) । तन्न कदाचिदपि, तत् करोति । उदाहरणाभ्यां(७) तदनुरूपावुपनयावपि सूचितौ । पूर्ववादिति । जात्यभिप्रायेऽनेकान्तः, व्यत्यभिप्राये चान्यथासि. दिर्दोष इत्यर्थः(८)॥
दीधितिटिप्पणी। एकान्तपदस्य च यावत्सत्त्वमलघुत्वादाह । उदाहरणाभ्यामि. ति। कर्मशिलादिभ्यामित्यर्थः १ ॥
(१) शिलादावकारित्वे सत्यन्यदाप्यकारित्वं-पा० २ पु० । शिलाशकलादावेकदाऽकारित्वेन्यदायकारित्वं-पुण० पु० पा० । शिलाशकलादावेकदाकारित्वे सत्यन्यदायकारित्व-कलि. मु० पु० पा०। (२) स्वरूप-पुण० पु० पा०। (३) योग्यमुक्तम्-पुण० पु० पा० ।
(१) स्वरुपयोग्यत्वे एकदाकरणं-कलि० मु० पु० पा०।।
(५) न्यथासिद्धिदोषा -पुण: पु० पा० । न्यथासिद्धदोषा-पाठः । . (६) उत्पत्रमात्रमित्यत्र रोतीत्यनुपज्य योजयति । उत्पत्रमाप्रमिति |---गुणानन्दः । • ( 0 ) न्यूनत्वमाशङ्कयाह । उदाहरणाभ्यामिति । अनुरूपावित्यनेन हेतुतावच्छेदकावच्छिन्नस्य पक्षधर्मतामात्रप्रतिपादकौ तन्मतसिद्धावित्युक्तं भवति ।--गुणानन्दः। ( ८) र्दोषः-पुण० पु० पा