________________
टिप्पणीसमलङ्कतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः। १७९ तथाहि सम्बन्धिनः सम्बन्ध्यन्तरे स्वाभाव स्वाभाव्यं श्रा विरुद्धयेत(१), अभाव (२) प्रतियोगित्वं वा तदैवेतिस
दीधितिः ।
स च सम्बन्धिस्वरूपः, निरन्तरोत्पन्न ( ३ ) क्षणिकाभ्यां ताभ्या मेव मिथः संयुक्तप्रत्ययादिसम्भवेऽतिरिक्ते मानाभावात्, अभावोऽपि चाधिकरणस्वरूप एव ( ४ ), एकत्र च सम्बन्धतद भाबोपगमे सम्बन्धात्मकस्य ( तस्य ) सम्बन्धाभावात्मकत्वं स्यात्, न च स्वं स्वस्याभावो भवितुमर्हतीत्याह । सम्बन्धिन इति । सम्बन्ध्यन्तरे, कदाचिदसत्रे तस्य । अभावेति । नाभावो विद्यते सत इति न्यायादिति भावः । अभावप्रतियोगित्वमिति परत्र दीधितिटिप्पणी |
1
सव संयोगः । स्वरूप (त्वे ) हेतुमाह । निरन्तरेति । ताभ्याम् सम्बन्धिभ्याम् | अतिरिक्त संयोगे । एकत्र चेति । तथा चेत्यादिः । एकदण्डे कदाचित् चक्रसम्बन्धः कदाचित्तदभावः स्वीक्रियते, तथा च चक्रसम्बन्धस्वरूपे (५) दण्डे यश्चक्र सम्बन्धाभावः सोपि दण्डस्वरूप एव, तथाच एकस्यैव दण्डस्य वक्रसम्बन्धाभावरूपपरतया १ एत. देवाह मूले, सम्बन्धिन इत्यादि । विरुज्यत इत्यनेन यथाश्रुतमूले (न) सम्बन्ध्यन्तरनिष्ठस्य सम्बन्धिनः स्वाभावस्वाभाव्यमित्यर्थो लभ्यते, तच्चासङ्गतम्, चक्रस्य दण्डनिष्ठस्वा (भाव) स्वाभाव्यस्य ? तम्म तेष्यविरुद्धत्वात् तेनाप्यधिकरणस्यैवाभावात्मकत्वाङ्गीकारात् न तु प्रतियोगिन इत्यतः पूरणेन सङ्गमयति । सम्बन्ध्यन्तर इति । स्वपदस्य सम्बन्ध्यन्तरवाचकत्वार्थ तस्येति पूरणम्, तथा च सम्बन्धिनः सम्बन्ध्यन्तरे कदाचित् सम्बन्धान्तस्य सम्बन्ध्यन्तरस्य यः स्वाभा• वस्तत्स्वाभाव्यं विरुद्धधत इत्यर्थः । सम्बन्धिनोऽभावप्रतियोगित्वविरुद्धहेतुत्वेनाभावो विरुद्ध इति ? ॥
(१) विरुद्धयेत् - पुण० पु० पा० । ( २ ) अभावो ध्वंसः प्रागभावश्च ।
( ३ ) सम्बन्धिस्वरूपं निरन्तरोत्पन्नम् – पुण० पु० पा० ॥
(४) स्वरूप मेव - पुण० पु० पा० । (५) स्वरूपयोग्य - इत्यादर्शपुस्तके पाठः ।