________________
आत्मतत्त्वविवेकः
कल्पलता। न्द्रियादि ज्ञानसुखादिक(१) यथा वा मृदङ्गाद्याकाशे शब्दं जनयति, तथा स्वा(२)नवच्छिन्नेऽपि काले क्षः णिको(३) भावः कार्याणि जनयतु, न होक(४) वस्तु क्षणव्यसम्बद्धं भवितुमर्हतीत्याह । तथापीति । जात. नष्टः क्षणिकः । एककालस्थ इति, स्वसम्बन्धिकालस्थ इति विवक्षायामिष्टापत्तिः, स्थैर्यपि(५) भावानां स्वावच्छिन्न एव (काले) स्थितेरित्याह । स्वरूपापेक्षयेति । कचित्सावधी(कृत्यनित्यभावानां, कचिनिरवधीति नित्यभावानाम् । नन्वेवं यागाद्यपि स्वानवच्छिन्ने(६) काले स्वर्गादि न जनयेदित्यत आह । सावधित्वे. ऽपीति । यागादीनामपि व्यापाररूपं यत्फल(७)मपूर्वादि तस्य प्रकर्षः(८) परिपाक(९)स्तद(धीनश्च स्वर्गादिफल). सम्बन्ध इति नोक्तदोष इत्यर्थः । तर्हि यागवहीजाद्यपि स्वानवच्छिन्ने काले कार्यजनकं स्यादत आह । अप्रकर्षेति(१०) । तेषां न तादृशो व्यापार इत्यभः । ननु य एव सहकारिकालः स एव बीजादेरपि काल इति कथं कार्याणि जातनष्ट एव न करोतीत्यत आह । छिनीयस्त्विति । किंच(११) तथाप्येककालस्थ एवं भाव इत्यादि त्वदभिधानमपि मा प्रत्यस. म्बद्धमित्याह । सहकारीति ॥
(१) ज्ञानं सुखादिकं-कलि० मु० पु० पा०। (२) तथार्था-पुण० पु० पा०। (३) क्षणिकोपि-पुण० पु० पा०। (४) ह्येवं-पुण० पु० पा० । (५) स्थैभि-पुण० पु० पा०। (६) नवच्छिन्नेपि-पुण० पु. पा० । (0) व्यापाररूप-कलि० मु. पु० पा०। (८) प्रकर्षश्च--कलि. मु० पु० पा० । (९) परीपाक-पुण० पु० पा०। (१०) अपकर्षेति-कलि० मु० पु० पा० । (११) द्वितीयस्त्विति । कथञ्चित्-पुण० पु. पा०।