________________
टिप्पणीसमलङ्कतदीधिति-कल्पलतापटीकाद्वयविभूषितः। १५३ . तस्मात् कार्यस्य स एव कालः, कारणस्य तु स चान्यश्चेति सम्बन्धिकालापेक्षया पूर्वकालताव्यवहारः(१)।
दीधितिः। ___ कार्यकारणयोरेककालत्वेऽपि पूर्वापर(भाव)व्यवहारं व्यत्रस्थापयति(२)। तस्मादिति । स एव सहकारिसमवधानोतर एव । सम्बन्धीति । सम्बन्धिनोः कार्यतत्मागभावयोर्यों का. लौ तदपेक्षया, तद्वृत्तित्वप्रतिसन्धानेन(३) कारणकार्ययोः पौर्वा पर्यव्यवहार इत्यर्थः(४)॥
दीधितिटिप्पणी। . ननु सेयमेककालस्थतत्यादिना कार्यकारणयोरेककालस्थताङ्गीकृता, एवञ्च कथं पूर्वापरव्यवहार इत्याशयेनावतारयति । कार्यका. रणयोगिते । सहकारिसमवहितेन(५) करोतीत्यत्रोत्तरकाल इत्यस्याथतो गम्यतया पूर्वोपस्थितत्वादाह । स एवेति । सम्बन्धिनारिति । उभयकालवृत्तित्वेनास्य पौर्वापर्यमिति(६) भाषः॥
कल्पलता। ___नन्वेतावता कार्यकारणयोयोगपद्ये(७) कारणस्य पूर्वकाल(ता)विरहात् कारणव न स्यादित्यत आह । तस्मादिति। स एव सामरज्यव्यवहितोत्तर एव । कार• णस्येति । किश्चित् कारणं तन्त्वादि सामग्यनन्तरमप्यनुवर्तते, किश्चित्तु(८) व्यापारं जनयित्वा कार्यात् पूर्वमेव नश्यती(९)त्यनियम एवेत्यर्थः ।सम्बन्धीति । य(१) पेक्षया पूर्वापरकालताव्यवहारः-पुण० पु० पा० । पेक्षया व्यवहारः-पाठः ।। (२) पूर्वापरव्यवहारनियामकं व्युत्पादयतीत्यर्थः। (३) व्यवहारे विषयस्याहेतुत्वादाह । तवृत्तित्वप्रतिसन्धानेनेति । (४) इति--पुण० पु० पा । (५) समवहितस्वभावेन-इति तु युक्तः पाठः स्यात् । (६) पौर्वमिति-इत्यादर्शपुस्तके पाठः ।। (0) कार्यकारणयोगपये-पुण० पु० पा०। (८) केचित्तु-पुण० पु० पा० । (९) पूर्वमेव विनश्यन्ती -पुण पु० पा० ।
-
N