________________
टिप्पणीसमलतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः । १४७
दीधितिः । पर्यपिति यत्कारी(१)सर्थ इत्याहुः । अत्र करणाकरणविरोधमुप. जीव्य प्रवृत्तयोस्तयोः कथं तत्साधकत्वाशङ्क(२)ति चिन्तनीयम् ।।
कल्पलता। " अस्विति(३) । यदीदं द्रव्यं दीर्घ स्यात् हस्वं न स्यादितिवत् यदि बीज कारि स्थादकारि न स्यात्, अकारि चैतत् , तस्मान्न कारीति प्रसङ्गतद्विपर्ययो स्यातामिहापीत्यर्थः । कारित्वाकारित्वे यदि साम
•सामध्यें एव, तत्र प्रसङ्गतविपर्ययौ पूर्वमेव निरस्तावित्याह । नेति । (तत्रेति।) ननु सामर्थ्यासामर्षे प्रति प्रसङ्गतद्विपर्ययौ नोच्येते येन पूर्वनिरस्तत्वं स्यात, किं तर्हि, कारित्वाकारित्वे (प्रति, ते) च ताभ्यामन्ये एवेत्यत आह । स्तां वेति । शत्यशत्योरिति । कारि. स्वाकारित्वयोरित्यर्थः । तथेति । कालभेदमनन्तर्भाव्य सामान्यतस्तयोरेक(ब)धर्मिण्युपसंहाराभावात् । एतदेव शङ्कापूर्वक(४) दर्शयति । यदा तदेति । उभयोरेककालत्वं तिरस्कृत्येत्यर्थः । यत्समर्थमिति । तथा च प्रसङ्गे इष्टापत्तिरित्यर्थः । तदेव स्फुटयति । सम्भ. वेति । समर्थस्थ करणं सम्भवतीत्यत्यन्तायोगव्यवच्छेदस्याभिमतत्वादेवेत्यर्थः । अत्र कार्यविशेषाङ्कराधुपधानं (न) विवक्षितम्, अन्यथैकस्यां व्यक्ती तथा.' भ्युपगमेऽपमिद्धान्तापत्तेः । यत् समर्थमिति(५) यजातीयं समर्थ तजातीयं करोत्येवेति वा विवक्षितम् ।। (१) यत्र यत्कारी-पुण० पु० पा०। (२) करणाकरणयोर्विरोधसाधकत्वाशङ्केत्यर्थः। (३ ) अस्तीति--पुण० पु. पा०। (१ ) शङ्कापूर्व-पुण० पु० पा० । ( ५ ) यत्समर्थमित्यादिमूलेनेत्यर्थः।