SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आत्मतत्त्वविवेकः ननु यदसमर्थ प्रथममासीत् तस्य सामर्थ्यं पश्चादपि कुत आगतम् ( १ ), प्रथमं समर्थस्य वा पश्चात् (२) कुत्र गतम् । नैतदेवम् । तत्तत्सहकारिमतस्तत्तत्कारकत्वं (३) हि सामर्थ्यम्, अतद्वतस्तदन्यवतो वा तदकर्तृत्वमसामर्थ्यम् । इदं चौत्पत्तिक ( ४ ) मस्य रूपम्, तेच सहकारिणः स्त्रोपसर्पणकारणवशाद्भिन्नकाला इत्यर्थात् कार्याणामपि भिन्नकालतेति । । ૨૪૯ दीधितिः । : सामर्थ्यप्रयुक्तं करणम्, सामर्थ्यं च जनकतावच्छेदकं रूपमित्याशयेना (५) शङ्कते, नन्वित्यादि (ना) । कुत्र गतमिति । सामर्थ्यमित्यनुषज्यते, तथा च तस्योपगमापगमविरहाद्यावत्सवमकरणं करणं वा प्राप्तमिति भावः जनकतावच्छेदकरूप नवं करणप्रयोजकमिति सत्यम् परं तु सहकारिमाकल्यविशिष्टमि त्याशयेनाह । नैतदिति । तदन्यवतः तद्विरोधि (६) मतः ॥ दीधितिटिप्पणी । इदं चेति मूलम्, तथा च इदमेतस्य स्वभावरूपमित्यर्थः ॥ · कल्पलता । ननु प्रथममसमर्थमपि क्रमेण समर्थ भवति, प्रथमं (बा) यत् समर्थ तदपि क्रमेणासमर्थमिति किंनिबन्धनमित्याह । नन्विति । सामर्थ्यं यदि योग्यत्वं वि ( १ ) तस्य पश्चादपि सामर्थ्य कुत आयातम् - पुण० पु० पा० । ( २ ) पश्चादपि - पाठः । (३) तत्तत्करणं - पाठः । ( ४ ) इदं चोत्पनिक - कलि० मु० पु० पा० । (५) शयेन - कलि० मु० पु० पा० । ( ६ ) तच्च प्रतिबन्धकं कारणाभावश्च ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy