________________
LE
आत्मतत्वविवेकः
स्यात, तथा च सम्भत्रविधेरत्यन्तायोगो विरुद्धः, न त्योगः, नीलं सरोजं भवत्येवेतिवत् ।
दीधितिः ।
वशिष्यते, वक्ष्यते (१) च तत्र । यद्यदा यत्समर्थ (२) तत् तदा तत् (३) करोतीति स्यात् । न स्यात् । समर्थस्यापि सहकारिविरहेणाकरण (स्व) स्योपपत्तौ मूलशैथिल्यादित्युक्तत्वात् । केचित्तु (४) करणाकरणविषयावेव प्रसङ्गविपर्ययौ स्यातामत आह । स्तां वेति । करणेनाकरणाभावप्रसञ्जने स्वरूपतोऽकरणेन करणाभावसाधने च प्रकारतोय वैशिष्टयात् कालभेदेनो भयोपपत्तेर्मूलशैथिल्या चोपसंहर्तुमशक्यत्वम्, यदा यत्कारि तदा न तदकारी ( ५ )त्यादि - प्रसङ्गविपर्यययोश्चापादकासिद्धि सिद्धसाधने चेति भावः । यत्सदीधितिटिप्पणी ।
कार्याजनकस्य, अन्यथा न्यूनता स्यात् । अवशिष्यत इति । तत्र कदाचिदित्याद्यभावात् । स्वयमाशङ्कते । यदिति । केचित्तु करणाकरणेति । तथा चैतन्मते तयोः सामर्थ्यासामर्थ्याविषयत्वं, न तु करणाकरणविषयकत्वमिति मूलार्थः । करणाकरणेति (६), तथा च करणाकरणविषय, नोक्तातिरिक्तौ तौ कर्त्तव्यावित्यर्थः । उपसंह
मित्यस्य व्याख्यानमाह । करणेनेति । साध्या विशेषवारणायेत्यादिः । करणेनाकरणाभावप्रसञ्जने स्वरूपतः साध्या वैशिष्ट्यात्, अभावाभावस्य भावस्वरूपत्वात्, अकरणेन करणाभावरूपवि पर्ययानुमाने प्रकारतोपि साध्या वैशिष्ट्य मस्तीत्यर्थः । अपिना स्वरूपस्यापि समुच्चयः ( ७ ) । ननु यदेत्यादिरूपयोर्मूलशैथिल्यादिदोषो नास्तीत्यत आह । यदेति । तथा च प्रसङ्गे कुशूलस्थनीजस्य पक्षसायां तदाऽङ्करकारित्वस्य मयाप्यनङ्गीकारादित्यर्थः ॥
( १ ) प्रत्यक्ष सिद्धब जित्व नै कस्य कल्पनमित्यादि वक्ष्यते । - गुणानन्दः ।
( २ ) यत्सम्बद्ध – कलि० मु० पु० पा० । ( ३ ) तत् तदा - कलि० मु० पु० पा० । ( ४ ) शङ्कर मिश्रस्येदं मतम् । (५) तत् कारी - कलि० मु० पु० पा० । ( ६ ) इदं च केचित्तुपक्षीयव्याख्यान विशेषदर्शनाय पुनःप्रतीकधारणम् ।
(७) समुच्चीयते - पा० २ पु० ।