________________
टिप्पणीसमलङ्कृतदीधिति- कल्पलता व्यटीकाद्वय विभूषितः । १४३ ययोरुक्तत्वादिति चेन्न । तयोः सामर्थ्यासामर्थ्यविषयस्वात्, तत्र च उक्तत्वात् । स्तां वा न तथापि ताभ्यां दीधितिः ।
धस्य सिद्धे ( १ ) रिति भावः । यद्यपि ताभ्यामेव भेदसिद्धौ कृत. ममुना विरोधेन सदुपजीविना, तथापि तावेव न सम्भवत इत्याह । तयोरिति । प्रसङ्गे सामर्थ्यस्य हेतुतया विपर्यये चासामर्थ्यस्य साध्यतया विषयत्वम्, सामर्थ्यमसअनीयं करणं वेह ( २ ) सामर्थ्यम्, तत्र च सामर्थ्य हीत्यादिना दुषणस्योक्तत्वात् । ननु योग्यतावच्छेदकं रूपमेव सामर्थ्यमभिधित्सितम् तत्र च न साध्या वैशिष्टयादेर्दोषस्यावकाश इत्यत आह । स्तां वेति ।
,
दीधितिटिप्पणी | भेदप्रतियोगितावच्छेदकयोर्विरोधस्थार्थत एव लब्धत्वादित्यर्थः । तदुपजीविना प्रसङ्गविपर्ययोपजीविना । यद्यपीत्यादि । कार्यका रिणोर्भेदसिद्धिरेव तस्योद्देश्या सामर्थ्यानुल्लेखेनैव प्रसङ्गविपर्ययतः संलब्धा, तथा च अप्रे तत इत्यादिना भेदसिद्धिस्ततो विरोधसिद्धिर्विरोधसिद्ध्या च पुनर्भेदसिद्धिरिति शिरोवेष्टनन्यायेनेदं व्यथम, तथा च यद्यप्येतावतैवेदंमत दुषणे प्रसङ्गविपर्यय दूषणानुसरणमफलम्, तथापि तददूषणे ताभ्यामपि तन्मतसिद्धिः स्याद• तस्तावपि न सम्भवत इति समुदायार्थः । सामर्थ्यासामर्थ्यावि. पयत्वं यथासङ्घयेन सङ्गमयति, प्रसङ्ग इत्यादिना । प्रसने सामर्थ्यस्य विषयत्वमेव न, तत्र कारित्वस्यैव साध्यत्वात्, अत आह । हेतुतयेति । हेतुतया विषयस्यापीदृशभाषया लिखनमविरुद्धमिति भावः । तद्विषयत्वलिखनं साध्य एव दृश्यते प्राचाम् (३), न तु हेतौ इत्यरुचेराह । सामर्थ्यप्रसञ्जनीयमिति । इदं च लक्षणानियामकसम्बन्धप्रदर्शनम्, तथा चाद्यसामर्थ्य पदेन प्रसङ्गीय साध्यं कारित्वमेवोक्तमिति भावः । तयोरित्यादिना मूलेनानुवादः कृतः,
(१) सिद्धि - पुण० पु० पा० । (२) करणं चेह - कलि० मु० पु० पा० । (३) दृश्यते - पा ०२ पु०|