________________
398
आत्मतस्वविवेकः
कल्पलता ।
पटव्यवहार इत्यभ्युपगमात् । (यहा ) अंशुतन्तुसं योगस्तत्र पटा ( २ ) समवायिकारणम् । न च तत्रैवांशौ पटवृत्तित्वामिति ( तथापि ) तन्तुना समानदेशत्वमेवेति वाच्यम् । अन्यूनदेशघोरेव तथाभ्युपगमात् । अ निवृत्ताविति । पूर्वद्रव्यं यदि न निवर्तते तदा सम वाघि (२) कारणान्तरानुप्रवेशोऽपि नास्तीति कथं दीर्घस्वोपलम्भ इत्यर्थः । ननु स्थूलप्रत्ययो दृश्यते, संयोगिद्रव्यान्तरानुप्रवेशं विना कथं स्यादित्यत आह । त दुपचये ( Sपी ) ति । द्रव्यान्तरं चेन्नोत्पद्यते तदा तत्र Free प्रत्ययो धान्यादिराशाविव भ्रान्त इत्यर्थः । त र्हि य एव कुश आसीत् स एवेदानीं स्थूल इति प्र त्यभिज्ञा कथमत आह । अत एवेति । पदार्थ चिन्ताचतुरैः वैशेषिकैः ॥
अस्तु तहहापि बाधकं बलम्, प्रसङ्गतद्विपर्य
दीधितिः । मसङ्गेति । ताभ्यामकारिणोऽसामर्थ्य साधकाभ्यां कार्यकारिभेदसिद्धिपर्यवसिताभ्यामर्थतः करणाकरणयोः स्वरूपेणैव विरोदीधितिटिप्पणी ।
-
मूले प्रसङ्गविपर्ययोरसाधकत्वेनोपन्यस्तत्वात् तन्तु साक्षातयोमैं सम्भवीत्यतः पर्यवसानेनाह । ताभ्यामिति । भेदसिद्धीति । अ कारित्वेन फलोपधानरूपकारित्वात्यन्ताभावेनासामर्थ्य सिद्धिरेष कारिभेदसिद्धिः, असामर्थ्यस्य कारिभेदव्यापकत्वादिति भावः । भेलाभेपि न विरोधसिद्धिरत आह । अर्धत इति । स्वरूपेण
(१) तथा - पुज० पु० पा० । (२) तदात्मसमवायि - पुरा० पु० पा० ।