SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः । १४१ दीधितिः । माणनाशः प्रकृष्टतरपरिमाणान्तरोत्पादश्च स्यादिति भावः ॥ दीधितिटिप्पणी । परिमाणनाशादिः स्यादित्यर्थः, आरम्भकतया संयोगित्वरूपापचयस्यावश्यकत्वात् ॥ कल्पलता । एवं सति दीर्घत्वस्वस्वे अपि परिमाणे कालभेदेन विरुद्धे न स्थाताम्, तथा च कालादिप्रत्यभिज्ञापि प्रमैव स्यादित्याह । नन्वेवमिति । एवमिति (१) । स्वकाल एव स्वविरोधिपरिमाणं प्रतिक्षिपेत् न तु स्वाकालेऽपीति वक्तुं सुकरत्वादित्यर्थः । तन्न (२), - नालयोरपि परिमाणयोरेकत्र धर्मिणि विरोधस्य प्रमाणसिद्धत्वादित्याह । नेति । तत्र परिमाणभेदो द्रव्यनाशे सत्येव भवेन्न तु पूर्वद्रव्ये सतीति तथाही - त्यादिना विवेचनीयमित्यन्तेनोपपादयति । तथाही - ति । अनिष्ट एव पूर्वद्रव्ये यदि तेष्ववयवेषु द्रव्यान्तरमुत्पद्येत तदा मूर्तयोः समानदेशत्वमापद्येतेत्याह (३) । नारब्धेति । ननु घटादौ चक्षुरालोकयोर्मूर्तयो रेकदेशतत्वं स्वीकृतमेवेति चेन्न । तत्र चालनीन्या. येनोभयवृस्थभ्युपगमात्, निषिडावयवमूर्तद्वयाभिप्रायेण (४) वा विरोधस्योक्तत्वात् । ननु तथाप्येकतन्तुकपटे तन्तूनां पदस्य चांशुवृत्तित्वमेव स्थात्, तथा च कथं न तत्र मूर्तद्वयसमानदेशताविरोध इति चेन्न । तत्र पट एव नोत्पद्यते, किं तु संस्थानविशेषाधीनः ( १ ) नन्वेवमिति – काल० मु० पु० पा० । ( ३ ) आपयेतेत्यर्थः पाठः । (२) तत्र कलि० मु० पु० पा० । ( ४ ) न निरवयमूर्त द्रव्याभिप्रायेण - पाठः ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy