________________
१३८
..
. आत्मतस्वविवेकः
1. कल्पलता। . क्षिपति, तथा सत्यामश्यामो घटः पाके सत्यपि रक्तो न स्थादित्यर्थः। दृष्टान्तमुपपादयति। न हीति । प्र. ति क्षेप्तुमर्हति प्रतिक्षेपास्मा भवति । दाटीन्तिकमाह । विरोधीति । उभयत्र विपक्षे दण्डमाह । तथा सतीति । स्वानवच्छिन्नेऽपि काले यदि स्वाभावं प्रति. क्षिपेत तदा यदा न स्यात् तदेव स्यादित्यायातं, यदा स्वयं न स्यात् तदा तबिरोध्यपि न स्यादिति स्वयमे. व स्यादिति विचित्रो विरोध इत्यर्थः । ततः किमित्यत आह । नासत इति । तथा च क्षणिकत्वसाधने प्रवृत्तस्य तव नित्यत्वमेव भावानां पर्यवसितमिति भावः । न घेति । स्वाभावकाले स्वविरोधिकाले।
नन्वेवं सति परिमाणभेदोऽपि कालभेदेन न विरुयेत, तत्राप्येवं वक्तुं सुकरत्वात् । न । बाधकबलेन तत्र कालभेदस्य विवक्षितत्वात, तथाहि, नारब्धद्रव्यै
दीधितिः। पारब्धद्रव्यैः आरब्धव्यवद्भिः। एकदेति फलतः समान.
दीधितिटिप्पणी। अल्पपरिमाणचैत्रादेः कालभेदेन बहुपरिमाणोपलम्भस्थले फ. किका मूले, नन्वेवमिति । आरब्धद्रव्यैरपि द्रव्यनाशानन्तरं द्रव्या. न्तरारम्भाभ्युपगमादसङ्गतिरतः, आरब्धव्यवद्भिरिति। मतुप वर्त मानवे । अन्यथा समवायेनोक्तौ आरब्धपदवैयापत्तेः । विरोध एककालीन(२)समानदेशत्वस्यैककालीनत्वनिबन्धनमत आह । फलत
(१) विरुद्धते-कवि मु. पु० पा०। (२) एककालीनत्वं-इत्यादर्शपुस्तके पाठः।