________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः । १३९ रेव द्रव्यावयवैद्रव्यान्तरमारभ्यते, मूर्तत्वसमानदेशत्त्रयोरेकदा विरोधात्, तथा चारम्भपक्षे पूर्वद्रव्यनिवृत्तिः, अनिवृत्तावनारम्भ इति ( १ ), तत्र निवृत्तावाश्रयभेदादेव
दीधितिः ।
देशत्वविशेषणम्, तथा च एककालावच्छेदेन मूर्त्तान्तरेण सममेकधर्मिसमवेतत्वमर्थः । न चैकतन्तुकपटे अंशुसंयोगानामेवासमवायिकारणत्वात् कार्यैकार्थसमवेतस्यैव संयोगस्य द्रव्यात्समवायिकारणत्वात् पटस्याप्यंशुदेशत्वमिति वाच्यम् । तन्तुस्वेन पटसमवायिकारणत्वादंशूनां तथात्वायोगात् वेमाद्यभिघातेन महातन्तुविनाश एव खण्ड तन्तुभ्यः पटोत्पादात्, अन्यथा तु पटसंस्थानसारूप्याद्भ्रान्त एव पट ( २ ) प्रत्ययः । अवयवान्तरावच्छेदेनावयविसंयोगोऽत्रयवे न विरुध्यते, शिरसि शरीरसंयुक्तः पाणिरिति प्रत्ययाव, तथा चश्विन्तरावच्छेदेन तन्तु संयोगोऽसमवायी, समवायी तन्तुरेव पटस्येत्यपि केचित् (३) । अनारम्भ इति । पूर्वद्रव्यसश्व एव द्रव्यान्तरोत्पत्तौ युगपत्तादृशद्रव्यद्वयोपलम्भा
दीधितिटिप्पणी ।
इति । पटस्यांशुदेशवे हेतुः कार्यैकार्थेति । तथा चांशुतत्योर्मूर्तयोः कथं समानदेशत्वमिति भावः । तन्तुत्वेनेति । अत्र व्यभिचारापन्नानामशूनां न तथात्वमिति भावः । नन्वेवं कथमे. कतन्तोः पट इत्यत आह । वेमेति । अन्यथा यदि वेमाभिघातेन महातन्तोरनाशः स्यात् । एकतन्तुकं पटमङ्गीकृत्य तन्तुस्थेन कारणताया अपि रक्षकस्य मतमाह । अवयवान्तरेति । अनेन च समवायिकारणमात्रावृत्तेरपि संयोगस्य समवायित्वमङ्गीक्रियत इति भावः । अनिवृत्तावव्यारम्भे स्वयमपि दोषान्तरं ददाति । पूर्वद्रव्यसश्व इत्यादि ।
( १ ) रम्भः पाठः । ( २ ) पर - कलि० मु० पु० पा० । ( ३ ) त्यपि कश्चित् पाठः ।