________________
टिप्पणीसमलङ्कतदीधिति - कल्पलतास्यटीकाइयविभूषितः । १२५
कल्पलता ।
तदसमवहितं तस्यैव तत् कार्य न भवेदित्याह । मिथ इति । अव्यभिचारानुपपत्तेः । (कार्याव्यभिचारानुपपत्तेः) । न हि सर्वेषां (१) सहकारिणामेकं किञ्चित् सार्वत्रिक (२) कार्यमिति नियमोस्तीत्यर्थः ॥
अपि चैवं सति प्रयोजकस्वभावो नान्वयव्यतिरेकगोचरः, तगोचरस्तु न प्रयोजकः, दृश्यं च ( ३ ) कार्यजातमदृश्येनैव स्वभावेन क्रियते, दृश्येन त्वदृश्यमेवेति सोऽयं यो ध्रुवाणीत्यस्य विषयः ।
दीधितिटिप्पणी ।
अथाक्लृप्त (४) कार्य तदुपादानवदुपादानाविनाभावो (५) पि सहकारिणः कल्पयिष्यते तत्राह । अपि चेति ।
'यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ( ६ ) | ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ।।' इति ॥
दीधितिटिप्पणी |
विना धृत्वैव यो ध्रुवाणीति व्याचष्टे । य इति ॥
कल्पलता ।
अपि चैवमिति । यदि बीजत्वावच्छेदेनैवा (७)तीन्द्रियं कार्य, यदि च कुर्वद्रूपत्वमतीन्द्रियमङ्कुरकारणतावच्छेदकं न तु वीजस्वमित्यर्थः । कारणतावच्छेदर्कस्य बीजत्वस्य कार्यतावच्छेदकस्याङ्कुरत्वादेः (८)
(१) सर्वेषामेव - पुण० पु० पा० ।
(३) दृश्यं -पाठः । (५) विनाभावे - पाठः । (७) वच्छेदेना- पुण० पु० पा० । (८) कुरत्वस्य - पुण० पु० पा० ।
(२) सार्वदिकं - कलि० मु० पु० पा० ।
( ४ ) अथ क्यप्त पाठः ।
( ६ ) यि तु सेवते -
1:21b1