SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ टिप्पणीलमलङ्कृतदीधिति-कल्पलता क्याडीकाद्वयविभूषितः । १२३ कल्पलता । गिनिर्विकल्पकं न विषयजन्यमित्याह । यौगिकेति । लौकिकं तु निर्विकल्पकं न सर्वकार्यमिति (१) शङ्कोत्तराभ्यामाह (२) । लौकिक इति । ननु यद्वीजमिन्द्रि प्रत्यासन्नं तन्निर्विकल्पकं जनयत्येवेत्यत आह । ततश्चेति । तावतापि स्थैर्यसिद्धिरिति भावः ॥ 1 कार्यान्तरमेवातीन्द्रियं सर्वबीजाव्यभिचारि भविष्यतीति चेत्, तन्न तावदुपादेयम्, अमूर्तस्य मूर्तानुपादेयत्वात्, परिदृश्यमानमूर्तघटिततया ( ३ ) मुर्तान्तरस्य तद्देशस्यानुपपत्तेः । नापि सहकार्य, मिथः सहकारिणा दीधितिः । उपादेयमप्यमूर्ती मूर्त वा । आधे, अमूर्तस्येति । एतच परमतेन तेषां रूपाद्यतिरिक्तस्य द्रव्यस्याभावाद्रूपादेरेव मूर्तत्वाद । अन्ये (४), परिदृश्येति । परिदृश्यमानम् परेषामुत्तरोतरबीजम् । सहकार्यम् उपादानसाहित्येन यत् क्रियते । मिथ दीधितिटिप्पणी । यथाश्रुतस्य लहकार्यपदस्य सहकारिविधया नोत्पद्यते इत्यर्थः कतया पूर्वेण सहाभेदः, उपादेयमपीतरकरणेन सहकारिभूतेनात्मनोत्पाद्यत अत आह । सहकार्यमिति । तथा चात्मभिन्नं यत्र यदुपादानं तत्साहित्येन बीजेन क्रियत इत्यर्थः । मिथ इति मूलम्, यदभावप्रयुक्तः कार्याभावः स एष सहकारी, तथा व सहकारिणामुपादानानां व्यभिचारोनुपपन्नः, सहकारिलक्षणासङ्गतेः । ननु ( १ ) व सर्ववीजकार्यमिति पाठः । (२) शङ्कोत्तराभ्यामिति - पुण० पु० पा० । (१) मूर्तमतिहततया - पाठः । (४) ते पाठः ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy