________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलतास्यटीकाद्वयविभूषितः । १२१
तद्रूपत्वमेतस्य ( १ ) प्रत्यक्षसिद्धत्वाद ( २ ) शक्यापह्रत्रमिति चेत्, अस्तु तर्हि विपर्ययः, यद्यद्रूपं तत् तेन रूपेणार्थ ( ३ ) क्रियासुपयुज्यते, यथा स्वभावेन सामग्रीनित्रेशिनो भात्राः, बीजजातीया चैते ( ४ ) कुशूलस्थादय इति स्वभावहेतुः, तद्रूपत्वमात्रानुबन्धित्वाद्येोग्यतायाः, ततश्चास्ति किञ्चित् कार्य यत्र बीजत्वेन बीजमुपयुज्यत इति ।
दीधितिः ।
स्वभावेनेति । स्त्रीयो भावो धर्मो (५) जातिभेदः, परेषां कुर्वद्रूपत्वम्, अस्माकं तु बीजस्वादिकम, सामान्यतश्च दृष्टान्तता ॥
कल्पलता ।
ननु कुशलस्थस्यापि बीजजातीयत्वमनुभवसिद्धत्वादशकपापह्नवमित्याह । तद्रूपत्वमिति । कुशूलस्थं बीजं बीजत्वेनैवार्थक्रियाप्रयोजकम्, बीजत्थात्, तनैवं यथा कुञ्जर इति व्यतिरेकी । स्वयापि कुर्ब-द्रूपत्वजातेरकुरप्रयोजकतायामेवं प्रयोक्तव्यमित्याह । यथा खभावेनेति । कुर्वत्र पस्वनेत्यर्थः । तथाहि सामग्रीमध्यगतं बीजमकुरकुर्वद्रूपत्वजातीयम् अङ्कुर प्रयोजकत्वात्, यन्नैवं तन्नैवं यथा शिलाश कलमिति भावः । स्वानुमाने (६) उपनयावयवमाह । बीजजातीयाश्चैत इति (१) । आदिपदात् कृषीवलनीयमान बीज
(१) तद्रत्वमस्य -- पाठः । (२) सिद्धम-पाठः । (४) बीजरूपाश्चैते
(५) स्वीया भावाः धर्माः
(६) भावः । अनुमाने – कलि० मु० पु० पा० । (७) बीजजातीयं चैतदिति - पुण० पु० पा० ।
የ
1 : 2lb!
( ३ ) तेनार्थ - पाठः 1
पाठः ।