________________
१२०
आत्मतत्वविवेकः
पकानुपलब्धिः प्रसङ्गहेतुः, तद्रूपताया अर्थक्रियां प्रति योग्यतया व्याप्तत्वात् , अन्यथातिप्रसङ्गात् ।
दीधितिः। यत्किश्चित्कार्यसामग्रीप्रविष्टाः, कुशलस्थादय इति यावत् । नोपयुज्यन्ते, परमते । अतिप्रसङ्गात् बीजादेरपि कुञ्जरत्वादिप्रसङ्गात् ।।
दीधितिटिप्पणी । ननु कारणतानवच्छेदकातद्यावृत्ती व्यभिचार इत्यत आह । रूप. मिहति । कुशूलस्थादय इति । न च कथं सङ्कोचः कृतः, तेन कुर्वः दूपशालरपि बीजत्वेनोपयोगास्वीकारादिति वाच्यम् । विपर्ययानु. माने मुले कुशूलस्थादय इति लिखनात् तस्यैव पक्षत्वं कृतम, अ. त्रापि तथा कृतं, प्रसङ्गविपर्ययोरेकपक्षकत्वनियमात् । नोपयुज्यन्त इत्यनन्तरं पूरणमाह । परमत इति ॥
कल्पलता। यद्येनेति । यज्जात्यवच्छेदेन यस्य किश्चित्कार्य प्रति न कारणता तत् तजातीय (च) न भवति, यथा घोज न कुञ्जरत्वप(१)दितार्थः । त्वया च क्षेत्रपतितानामपि शाल्यादीनां बीजत्वेनाकरं प्रति कारणता, 'नाभ्युपगम्यत इति ते बीजजातीया न भवेयुः । यद्यपि गुणानां गुणत्वेन न किश्चित् प्रति कारणता न च ते न गुणजातीयाः, तथापि परमताभिप्रायेणायं प्रयोगः । व्यापकेति । तजात्यवच्छेदेनार्थक्रियाकारि• त्वं(२) तजातीयत्वव्यापकम् , तस्यानुपलब्धिः तद्विप. रीतोपलब्धिस्त्वदभ्युपगमेनेत्यर्थः । प्रसङ्गमूलभूना व्याप्तिमाह । तद्रूपताया इति । अन्यथेति। अन्यथा बीजमपि कुञ्जरजातीयं स्यादित्यर्थः ॥ (१) यथा न बीजं कुञ्जरत्वजातिम-कलि० मु० पु० पा० । ( २ ) व्यापकेति । जात्यवच्छेदेनार्थकियाकारित्वं-पुण० पु. पा० ।