________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलता व्यटीकाद्वयविभूषितः । ११९
कल्पलता ।
बीजत्वेन बीजानि क्वचित् कार्ये प्रयोजकानीति (१) प्रस्तुते जात्यन्तरमतन्त्रमनुपलम्भबाधितं चेति भावः । द्वितीय इति । एवं सत्यङ्कुरमपि प्रति बीजस्वनैव कारणत्वमायातमिति सिद्धं नः समीहितमित्यर्थः । अङ्कुरं प्रति बीजं बीजत्वेनैव (२) निमित्तकारण (३)मित्यभिप्रायेणापि प्रकृत सिद्धौ यद्यपि बीजस्येत्यादिशङ्का कैश्चित्कृताना देगा (४) । समानशीलानामिति । बीजत्वेनैव (५) कारणानामित्यर्थः ॥
1
अत्रापि प्रयोगः । यद्येन रूपेणार्थक्रियासु नोपयुज्यते न तत् तद्रूपम्, यथा बीजं कुञ्जरत्वेन किञ्चिदप्यकुर्वन्न कुञ्जरस्वरूपम्, तथा च शाल्यादयः सामग्रीप्रविष्टा बीजत्वेनार्थक्रियासु नोपयुज्यन्त इति व्या
दीधितिः । येन रूपेणेति । रूपमिह परेषां जातिमात्रम् । सामग्रीति ।
(१) कार्य प्रयोजकानीति - पुण० पु० पा० । (२) बीजत्वेनैव बीजं - पु० पु० पा० । (३) निमित्त - पुण० पु० पा० । ( ४ ) भगीरथ ठक्कुरकृताङ्कानादेयेत्यर्थः । अत्रैवं भगीरथठक्कुरेणाशङ्कय समाहितम् - 'यद्यपि बीजस्यान्त्या वयवित्वांना ङ्कुरजनकत्वम्, तदवयवानां च न बीजत्वम्, घटत्ववत्तस्यान्यवयवावयव्यवृत्तित्वात् तथापि बीजपदं लक्षणया तदवयवपरम्' इति । इयमाशय नोपपद्यते, बीजस्यैव परमतॆकुकुरकारणत्योपगमा सन्मतानुसारेणैवोक्तमन्थसङ्गतेः स्वमतेपि बीजस्याकुरनिमित्तकारणत्वाभ्युपगमेनैवोपपत्तेरुपादानत्वव्यवस्थापनस्यानावश्यकत्वादिति शङ्करमिश्राणामाशयः । दीधितिकृन्मते तु बीजत्वेनाङ्कुरं प्रति कारणत्वाभिधानं परमतानुसारेणैव स्वमते तु पीलुपाकरीत्यभ्युपगमे बीजारम्भकपणुकपर्यन्तविनाश एवं परमाणावङ्कुररूपादिसजातीयरूपाद्युत्पत्त्या तादृशपरमाणुभ्यो द्व्यणुकादिक्रमेणाङ्कुरोत्पत्त्या बीजारम्भकस्थूलावयवानामकुरा।जनकत्वात् परमाणुषु च द्रव्यत्वव्याप्यव्याप्यजात्यनभ्युपगमात् रूपविशेषादिमद्रव्यसामान्यादेव कुङ्करोत्पादाभ्युपगमस्यावश्यकतया बीजावयवत्वेन हेतुत्वमप्रामाणिक मेवेति बोध्यम् । स्पष्टं चिद ४३ पृष्ठे ११ पौ । (५) बीजत्वेन च - कलि० मु० पु० पा० ।
"