________________
११८
आत्मतत्वविवेकः
कल्पलता ।
ति (१) । बीजत्वं किञ्चित्कार्य प्रति कारणतावच्छेदकं न वेति विकल्पार्थः । न तत्स्वभावमिति । तर्हि बीजत्वं जातिरेव न स्यादित्यर्थः । ननु बीजत्वं मास्तु, अङ्कुरकुर्वदूपत्वमेव तथा स्वादित्यत आह । एवं चेति । कचिदिति । बीजत्वेन रूपेण बीजानां किञ्चित्कार्य प्रति जनकत्वाभ्युपगमे सर्वाण्येव (२) बीजानि तथा स्युः, बीजत्वा (३) विशेषादित्यर्थः । वस्तुमात्रमिति । कार्यमात्रमित्यर्थः । यद्वा सर्व वस्तु क्षणिकमेवेति तदभिप्रायेणोक्तं वस्तुमात्रमिति । एवं सति बीजासमवधाने घटपटाद्यपि न स्यादित्याह । अबीजादिति । ननु बीजाद्वीजमेव कार्यमस्तु, सभागसन्तानस्यैव मंधा क्षणिक (४)त्ववादिनाभ्युपगमादित्यत श्राह । नापीति । तर्हि घरमादपि बीजाद्वीजमेवोत्पद्येत, नाङ्कुरः (५), अङ्कुरस्याप्युत्पादे वा समानदेशताविरोधः, बीजसन्तानानुपरमः, प्राथमिकबीजानुत्पत्तिश्चेति भावः । ननु बीजमङ्कुरो बीजानुभवश्च कार्याणि बीजत्वा - वच्छिन्नकारणाज्जायन्तामित्यत आह । नापीति । कार्यमिति शेषः । तर्क्युत्पन्नमात्रादपि बीजादेतानि का र्याणि स्युरित्याह । प्रागपीति । सहकारिसमवधानादिति शेष: ( ६ ) । सहकारिसमवधानं शङ्कते । यदेति । अवान्तरेति । अङ्कुरकुर्वद्रवत्वादीत्यर्थः । आय इति ।
(३) बीजत्व - पुण० पु० पा०
( १ ) प्रघट्टकार्थः । स्वभावत्वमिति - पाठः । ( २ ) सर्वाण्यपि - पुण० पु० पा० । । ( ४ ) समान - कलि मु० पु० पा० । ( ६ ) सहकारिसमावेशादित्यर्थः - पुण० पु० पा० ।
(५) न त्वङ्कुरः - पाठः ।