________________
टिप्पणीसमलङ्कनदीधिति-कल्पलताख्यटीकाद्वयविभूषितः ।११७ कल्यादकरणमित्यायातम् , तत्तत्सहकारिसाहित्ये(१) सति तत्तत्कार्य प्रति प्रयोजकस्य(२) बीजस्वभावस्य(३) सर्वसाधारणत्वादिति(४)।
दीधितिः। नैतदपि, प्राथमिकबीजानुत्पत्तिप्रसङ्गात्, अङ्कुरत्वावच्छिन्नं प्रत्यपि प्रयोजक(त्व)स्य वक्तव्यत्वात् , अन्यतमत्वेन जन्यत्वे मानाभावाच्चेति ।।
दीधितिटिप्पणी। क्तिरापादयितुं न शक्यते, तद्वदित्यर्थः। अङ्करत्वावच्छिन्नं प्रत्यपी. ति। तथा च त्वन्मते कार्यमात्रवृत्तेः किञ्चिभिरूपितकार्यतावच्छेद. कत्वनियमरक्षार्थ इतराभावाद्वीजत्वमेव जनकतापच्छेदकं वक्तव्य. मिति भावः ॥
कल्पलता। कृतमङ्कुरेति(५) । अकुरत्वावच्छिन्नं कार्य प्रति बीजानां पीजत्वेनैव कारणतेति किं विशिष्य व्यवस्थापनग्रहेण, प्रकारान्तरेणापि परि(६)शेषादिना तथैव पर्यवस्थतीत्यर्थः(७)। बीजत्वेन कचित् कार्य बीजं यदि प्रयोजक न(८) भवेत् तदा तेन रूपेण तद. सत् स्थादिति(९), तच(१०) कार्य परिशेषादकुररूपमेव सेत्स्यतीति प्रघट्टकार्थः । बीजस्वभावत्वमि.
(१) सहकारिसाकल्ये-पाठः। (२) तत्सत्कार्यप्रयोजकस्य--पाठः । (३ ) स्वाभाव्यस्य-पाठः । (४) साधारण्यात-पाठः ।। (५) किमकुरेति-पुण. पु. पा०। (६) प्रकारान्तरेणापि वि-पुण० पु० पा०। (.) पर्यवस्थनीति-पुण. पु. पा०। (८) यदि न प्रयोजकं-पाठः। (९) स्यादित्यर्थ:-पुण' पु. पा०। (१०) तत्-पाठः । तस्य-पुण० पु० पा० ।