________________
११६
आत्मतस्वविवेकः
।
नाप्यङ्कुराद्यन्यतममात्रम्, प्रागपि तदुत्पत्तिप्रसङ्गात् । यदा यदुत्पन्नं सत् यत्कार्यानुकूल सहकारिमध्यमधिशेते तदा तदेव कार्य प्रति तस्य प्रयोजकत्वमिति चेत्, तत् किमवान्तरजातिभेदमुपादाय, बीजस्त्रभावेनैव वा । आधे स एव जातिभेदस्तत्र प्रयोजक: ( १ ), किमायांत बीजत्वस्य । द्वितीये तु समानशीलानामपि सहकारिवैदीधितिः । जानुत्पाद (२) बीज सन्तानानुपरममसङ्गोपि द्रष्टव्य : (३) । अड्डराधन्यतममात्रम् कदाचिदङ्कुरः कदाचिद्वीजं कदाचिच्चानुभव इत्यर्थः । प्रागपीति । प्रागङ्कुरस्य पश्चाच्च बीजस्योत्पत्तिप्रसङ्गादित्यर्थः, बीजवेनाङ्कुरादि ( ४ ) जननसामर्थ्यादिति भावः । अवान्तरजातिभेदम् तत्तत्कार्य कुर्वत्वम् । अथाङ्कुरायन्यतमत्वेन कार्यता, अङ्कुरादयस्तु व्यक्तिस्थानीया इति (५) मतम्,
दीधितिटिप्पणी |
छेदकपरत्वे प्रागपीत्याद्यसङ्गतिः, कारणसत्वे कार्यतावच्छेकावछिन यत्किञ्चिदुत्पादस्यैवोपगमात् यावदापादकाभावादत आह । कदाचिदिति । एतत् यद्यपीत्याद्युक्तम् ? वस्तुतस्तु मूलमित्थमपि योजयितुं पार्यते, अन्यतमत्वस्यावच्छेदकत्वेपि विशेषसामग्भ्यन्तरः मुच्यते न वा अन्त्ये प्रागपीति । आद्ये यदेत्यादि । तथा च प्रत्येकमेव जन्यतावच्छेदकं श्रयमिति भावः । प्राक् कुशूलस्थतादशायाम्, अङ्कुरस्योत्पादप्रसङ्ग इत्यर्थः । अपिशब्दस्वरसादाह । पश्चादिति । पश्चात् अङ्कुरोत्पत्तिदशायाम्, बीजस्योत्पत्तिप्रसङ्गादित्यर्थः । अ• म्यतमत्वस्य कार्यतावच्छेदकत्वमभिप्रेत्य स्वातन्त्र्येण फक्किकामवतारयति । अथेति । व्यक्तिस्थानीया इति । यथा दण्डसत्त्वे तद्भव्य
1
( १ ) जातिभेद प्रयोजकः - पाठः । (३) प्रसङ्गपि बोध्यः -- पाठः । (५) इति तु पा० २ पु० ।
,
(२) बीजानुत्पादे -
( ४ ) बजित्वेनाङ्कुर - पाठ: ।
-913:1