________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः । ११५ किञ्चिदेव बीजं स्वकार्ये कुर्यात, नापराणि । न च वस्तुमा तत्कार्यम्, अबीजात तदनुत्पत्तिप्रसङ्गात् । नापि बीजमात्रम्, अङ्कुरकारिणोपि तदुत्पत्तिप्रसङ्गात् ।
दीधितिः ।
अ विशेषः (१) अङ्कुरादिकारणत्वेन न विशेषः (२), ताद्रूप्यात् अङ्कुरादिजनकतावच्छेदक बीजत्व ( ३ ) शालित्वात् । स्वकार्यम् अङ्करादि (४) । अपराणि अकुराद्य कुर्वदूपाणि बीजानि कथं न कुर्युर्यदि समर्थस्यापि सहकारिविरहाना करणम् । अथ वस्तुमात्रं बीजत्वावच्छिन्न कार्यम्, अस्माकं वस्तुमात्रस्यैव क्षणिकत्वेन कार्यत्वात् न च वस्त्वकारि किञ्चिदपि वीजमित्याशङ्कय (५) मिराकुरुते ( ६ ), न चेत्यादिना (७) । अत्रीजात् बीजशून्यकार • णकलापात् तस्य वस्तुनः अनुत्पत्तेः प्रसङ्गात् ( ८ ) । नापि बीजमात्रमिति (९) । परेषां पूर्वपूर्वबीजक्षणेनोत्तरोत्तर वीजक्षणजननात् (१०) । तदुत्पत्तीति । बीजोत्पत्तीत्यर्थः । प्राथमिकवी
,
दीधितिटिप्पणी | ति । शेषं पूरयति । कथं न कुर्युरित्यादि । ननु वस्तुमात्रं कथं कार्यम्, अत आह । अस्माकमिति । यथाश्रुते अन्यतमत्वस्य कार्यताघ
( १ ) अङ्कुराकुर्वद्रूपाणाम् अविशेषः - पा० २ पु० । बीजत्वेन सर्वेषामविशेषे न विवादः, कुर्वद्रूपत्वेनाविशेषो निराकृत इत्यतः पूरयति । अङ्कुरादिकारणत्वेनेति । तृतीयार्थोऽभेदः कुर्वपाद्विशेषो वैलक्षण्यम् अङ्कुराय कारणत्वम्, तदभावे तृतीयार्थमिदान्वयो बोध्यः । -- गदाधरः ।
(२) अविशेष पदेऽभावप्राधान्ये नञ्तत्पुरुषासम्भवः, अव्ययीभावापगमेऽविशेषमित्येवं स्यात्, अतो वादिनाम विवाद इत्यत्रेव अकारो नञ्समानार्थक इति सूचयितुं नञ्पदेन अशब्दार्थ कन व्याचष्टे । नेति । -- गदाधरः ।
( ४ ) अङ्कुरादिः - - पाठः । ( ६ ) निराकरोति पाठः ।
( ३ ) बीजत्वादि - पाठः । (५) मित्याशङ्का- --पाठः । ( ७ ) न चेति पाठः ।
( ८ ) तत्पदस्यानुत्पत्तिपदेनैव षष्ठीसमासो न तु प्रसङ्गान्तेनेति स्पष्टयितुमनुत्प तिप्रसङ्गादित्यसमासेन निम्वनम् |-- गदाधरः । अनुत्पत्तिप्रसङ्गात् पु० पु० पा० ।
(१०) बजिजननातू - पाठः ।
(९) बीजमात्रवृत्ति --
--913: 1