________________
613
११२
आत्मतत्त्वविवेकः
त: ( १ ), तथाभूतस्य तस्याभावात् । सेयं निमित्तवत्ता विपक्षान्निवर्तमाना ( २ ) स्वव्याप्यमादाय बीजप्रयोजकतायामेव विश्राम्यतीति प्रतिबन्धसिद्धि: ।
दीधितिः । तथा च सनिमित्तकत्वसाधकं कार्यमात्रवृत्तिजातित्वं क्लृप्तशालित्वा दिबाधाक्लृप्त (३) कल्पनागौरव प्रतिसन्धानसहितं बीजत्वस्य नि. मित्तत्वं साधयतीति (४) सेयं निमित्तवत्ता विपक्षात् निर्निमित्तात् स्वव्याप्यम् कार्यमात्रवृत्तिजातित्वमादाय व्यावर्तमाना (५) अ कुरत्वे सिद्धयन्ती (६) परिशेषाद् बीजप्रयोजकतायामेव बिश्राम्यति, अङ्कुरत्वस्य बीजप्रयोज्यत्वे सिध्यति बीजस्या (प्य) - रप्रयोजकत्वं सिध्यतीत्यर्थः । बीजं प्रयोजकं यस्येति बहुव्रीहिरित्यन्ये । बीजप्रयोज्यतायामिति पाठस्तु सुगम एव ( ७ ) ॥ दीधितिटिप्पणी |
पीति नमो भाषमाह । तथा चेति । क्लुप्त (शालित्वादि) बाधेर्ति । प्राचीनमते सामान्यतोदृष्ट एव उतरबाधसहकारेण विशेषबोधको भवेदिति । साधयतीति । साधयति इति कृत्वा सेयं निमित्तवता विश्राम्यतीति सम्बन्धः, तथा च पूर्वे तथा चेत्यादिना विश्रामहेतुकथनम् । ननु इतरबाधसखेन अङ्कुररूपनिमित्तवन्तासिद्धिरङ्कुरप्रयोज्यश्वसिद्धिरेध, न तु प्रयोजकताया अत आह । अङ्करत्वस्येति ॥
कल्पलता ।
उक्तमाकस्मिकत्वप्रसङ्गं प्रपञ्चयति । अङ्कुरस्य होति । (निर्निमित्तत्वम् नियतजातीयकारणाप्रयो
( १ ) म्यनिमित्तकः-पाठः ।
( २ ) विपक्षाद्व्यावर्तमाना- कलि० मु० पु० पा० ।
(३) शालित्वादिबाधात् क्यप्त-कलि० मु० पु० पा० ।
( ४ ) साधयति - पुण० पु० पा० ।
(६) सिद्धयन्तीति-कलि० मु० पु० पा० ।
•
(५) मादाय निवर्तमाना-पाठः । (●) सुगमः - पाठः ।